________________
सप्तमोऽध्यायः। -~ rmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm क्रमेणाहारत्यागः। प्रत्याख्यानं त्रिविधाहारपरित्यागः । क्षमापणमाचार्यादीनां क्षमाग्राहणम् । क्षमणं स्वस्थान्यकृतापराधक्षमा । अनुशिष्टिनिर्यापकाचार्येणाराधकस्य शिक्षणम् । सारणा दुःखाभिभवान्मोहं गतस्य चेतनाप्रापणा । कवचं धर्माद्युपदेशेन दुःखनिवारणम् । समता जीवितमरणादिषु रागद्वेषयोरकरणम्। ध्यानमेकाग्रचिन्तानिरोधः। लेश्या कषाया. नुरञ्जितयोगप्रवृत्तिः । फलमाराधनासाध्यम् । आराधकशरीरस्य त्यागः क्षपकदेहोज्झनम् ।
अत्रत्येदानींतनसाधुवृन्दारकानात्मनः प्रशममर्थयतेभक्तत्यागविधेः सिसाधयिषया येाद्यवस्थाः क्रमा,चत्वारिंशतमन्वहं निजबलादारोहुमुधुञ्जते । चेष्टाजल्पनचिन्तनच्युतचिदानन्दामृतस्रोतसि, स्वान्तः सन्तु शमाय तेऽद्य यमिनामत्राग्रगण्या मम ॥ ९९ ॥
सन्तु भवन्तु । के ? ते यमिनां यावजीवं व्रतधारिणामग्रगण्या अग्रे गण्यमानाः अग्रेसरा इत्यर्थः । कस्मै ? शमाय प्रशमार्थम् । कस्य ? मम । क वर्तमानाः ? अत्रेह क्षेत्रे । कदा ? अद्य अधुना। किं कुर्वन्तः? स्नांतो मजन्तः शुद्धिं विदधानाः । क ? चेष्टेत्यादि । चेष्टा कायकृतो व्यापारः । जल्पनं वचनम् । चिन्तनं चिन्ता । चेष्टा च जल्पनं च चिन्तनं च। तेभ्यश्चयुतः किंचिदपेत ईषदुन्मिषत् क्षयोपशमभावमापनः । चिदानन्दो ज्ञानानन्दः । स एवामृतस्रोतः सुधाप्रवाहस्तस्मिन् चेष्टाजल्पनचिन्तनच्युतचिदानन्दामृतस्रोतसि । ये किम् ? ये उयुञ्जते उत्स हन्ते । किं कर्तुम् ? आरोढुं प्रकर्ष प्रापयितुं । काः ? अर्हाद्यवस्था अर्हल्लिङ्गादिपर्यायान् । कति ? चत्वारिंशतं द्विविंशतिसंख्याः। कस्मात् ? निजबलात् स्वसामर्थ्यात् । कथम् ? अन्वहमनुदिनम् । कस्मात् ? क्रमात क्रममाश्रित्य । एतेन दीक्षा शिक्षा गणपोषणमात्मसंस्कार: सल्लेखना उत्तमार्थश्चेति षोढा कालक्रमं लक्षयति । कया ? सिसाधयिषया साधयितुमिच्छया । कस्य ? भक्तत्यागविधेः भक्तप्रत्याख्यानप्रतिज्ञावतः।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org