SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृते अर्हो लिङ्ग तथा शिक्षा विनयश्च समाधिता विहारो नियमेनैव परिणामस्ततः परः ॥ उपध्युज्झा श्रितिश्चैव भावना च ततः परा । सल्लेखनादिशा क्षान्तिः शिष्टिश्चर्या परे गणे ॥ मार्गणासु स्थितश्चोपसर्गणं च परीक्षणम् । निरूपणं तथा प्रश्नः प्रतिपृच्छयैकसंग्रहः ॥ गुरोरालोचना चैव गुणदोषास्तथैव च । वसतिः संस्तरश्चैव निर्यापकपरिग्रहः ॥ प्रकाशनं तथा हानिः प्रत्याख्यानं क्षमापणम् । क्षमणं चानुशिष्टिश्च सारणा कवचं तथा ॥ समता च तथा ध्यानं लेश्या चैव फलं ततः । आराधकशरीरस्य त्यागश्चेति समुच्चयः ॥ 1 अर्हः सविचारभक्तप्रत्याख्यानस्य योग्यः । लिङ्गं चिह्नम् । शिक्षा श्रुताध्ययनम् विनयो मर्यादा । ज्ञानादिभावना व्यवस्था हि ज्ञानादिविनयतया प्रागुक्ता । उपास्तिर्वा विनयः । समाधिः समाधानम् शुभोपयोगे वा मनस एकताकरणम् । अनियतविहारोऽनियतक्षेत्रावासः । परिणामः स्वकार्यपर्यालोचनम् । उपध्युज्झा परिग्रहपरित्यागः । श्रितिरारोहणम् । भावनाऽभ्यासः । सल्लेखना कायस्य कषायाणां च सम्यक्कृशीकरणम् । दिशा एलाचार्य: । क्षान्तिर्गणक्षमापणा । शिष्टिः सूत्रानुसारेण गणस्य शिक्षादानम् । चर्या परे गणे अन्यस्मिन्संघे गमनम् । मार्गणा आत्मनो रत्नत्रयशुद्धिं समाधिमरणं च संपादयितुं समर्थस्य सूरेरन्वेषणम् । सुस्थित आचार्यः । परोपकारकरणे स्वप्रयोजने च सम्यक् स्थितत्वात् । उपसर्पणमुपसंपत् । आचार्यस्यात्मसमर्पणम् । परीक्षणं परीक्षा गणपरिचारकादिगोचरा । निरूपणमाराधना निर्विघ्नसिद्ध्यर्थं देशराज्यादिकल्याणगवेषणम् । प्रश्नः किमयमस्माभिरनुग्रहीतव्यो न वेति संघमुद्दिश्य पृच्छा । प्रतिपृच्छ्यैकसंग्रहः संघं पुनः पृष्ट्वा तदनुमतेनैकस्य क्षपकस्य स्वीकारः । गुरोरालोचना सूरेः स्वदोषनिवेदनम् । गुणदोषा गुणा दोषाश्च, प्रत्यासत्तेरालोचनाया एव । शय्या वसतिः संस्तरः प्रस्तरः । निर्यापकपरिग्रहः आराधकस्य समाधिसहायपरिवर्गः । प्रकाशनं चरमाहारप्रकटनम् । हानिः 1 ५३२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy