________________
सप्तमोऽध्यायः।
५३१
किंविशिष्टः ? आवश्यकादिक आवश्यकमलोत्सर्गाद्याश्रयः । परो नैमित्तिकः कायत्यागो भवति । किंविशिष्टः ? पर्वकृत्यादिकः पार्वण. क्रियानिषद्याक्रियापुरस्सरः पर्वस्वष्टम्यादिषु कृतिः क्रिया पर्वकृतिः । प्राणान्तिककायत्यागस्य त्रैविध्यमाहभक्तत्यागेङ्गिनीप्रायोपयानमरणैस्त्रिधा। यावजीवं तनुत्यागस्तत्राद्योहादिभावभाव ॥९८॥ भवति । कोसौ ? तनुत्यागः कायत्यागः । कथम् ? यावजीवम् सार्वकालिक इत्यर्थः । कतिधा ? त्रिधा त्रिप्रकारः । कैः ? भक्तत्यागेङ्गि नीप्रायोपयानमरणः। भक्तत्यागमरणं भक्तप्रत्याख्यानमरणम् इङ्गिनीमरणं स्ववैयावृत्यसापेक्षपरवैयावृत्त्यनिरपेक्षम् । प्रायोपयानमरणं स्वपरवैयावृत्त्यनिरपेक्षम् । प्रायोपगमनमरणमित्यर्थः । प्रायो लोकादपयानमपगमनमपसरणं प्रायोपयानम् । भक्तत्यागश्चेङ्गिनी च प्रायोपयानं च भक्तत्यागेङ्गिनीप्रायोपयानानि । तान्येव मरणानि प्राणत्यागः । प्रायः सर्वसङ्गपरित्यागे सति चतुर्विधाहारपरिहारः 'संन्यासवत्यनशने पुमान् प्राय' इत्यभिधानात् । प्रायस्योपयानमुपगमनं स्वीकारो यस्मिन्मरणे तत् प्रायोपयानम् । प्रायोपगमनमिति रूढम् । तदेव पादोपगमनमित्याख्यायते पादाभ्यामुपगमनं ढौकनं संघानिर्गत्य योग्यदेशस्याश्रयणम् । तेन प्रव. र्तितं मरणं पादोपगमनमरणम् । स्वपरवैयावृत्त्यनिरपेक्षः प्राणत्याग उच्यते रूढिवशात्, तदेव च प्रायोपवेशनमित्याम्नायते । प्रायेण पूर्वोकलक्षणेनोपविशत्यस्मिंस्तपोनिधिरित्यन्वर्थाश्रयणात् । उक्तं च
"ततः कालात्यये धीमान् श्रीप्रभाद्रो समुन्नते। प्रायोपवेशनं कृत्वा शरीराहारमत्यजत् ॥ रत्नत्रयमयीं शय्यामधिशय्य तपोनिधिः ।
प्रायेणोपविशत्यस्मिन्नित्यन्वर्थत्वमापिबत्॥” इति । • तत्र तेषु भक्तत्यागेङ्गिनीप्रायोपयानेषु मध्ये आद्यः प्रथमो भक्तत्यागो भवति । किं विशिष्टः ? अादिभावभाक् । अर्हादिभावान हल्लिङ्गादिपदार्थान् भजति अयत्यादिभावभाक् । अर्हादिभावं वा अर्हादित्वं भजति तद्वान् भवतीत्यर्थः । तद्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org