________________
अनगारधर्मामृते
व्युत्सर्गस्वामिन मुत्कर्षतो निर्दिशतिदेहाद्विविक्तमात्मानं पश्यन् गुप्तित्रयीं श्रितः । स्वाङ्गेपि निस्पृहो योगी व्युत्सर्गं भजते परम् ॥ ९५ ॥
५३०
योगी सद्ध्याननिष्ठो यतिः परमुत्कृष्टं व्युत्सर्गे भजतेनुभवति । किंविशिष्टः ? श्रित आश्रितः । काम् ? गुप्तित्रयीं मयोवाक्कायानां सम्यग्योगनिग्रहम् । किं कुर्वन् ? पश्यन् अनुभवन् । कम् ? आत्मानम् । किंविशिष्टम् ? विविक्तं भिन्नम् । कस्मात् ? देहात् । पुनः किंविशिष्टः ? निस्पृहो निरीहः । क ? स्वाङ्गे स्वशरीरे । न केवलं, बहिरर्थे इत्यपि - शब्दार्थः । उक्तं च
अतिसुतपसामाशावल्लीशिखा तरुणायते, भवति हि मनोमूले यावन्ममत्वजलाईता | इति कृतधियः कृच्छ्रारम्भैश्चरन्ति निरन्तरं, चिरपरिचिते देहेप्यस्मिन्नतीवगतस्पृहाः ॥
प्रकारान्तरेणान्तरङ्गोपधिव्युत्सर्गमाहकायत्यागश्चान्तरङ्गोपधिव्युत्सर्ग इष्यते ।
सद्वेधा नियतानेहा सार्वकालिक इत्यपि ॥ ९६॥
इष्येते पूर्वसूरिभिः । कोसौ ? कायत्यागश्च कायत्यागोपि । किंविशिष्टः ? अन्तरङ्गोपधिव्युत्सर्गः । स च कायत्यागो द्वेधा भवति । किं विशिष्टः ? नियतानेहाः परिमितकालः । न केवलं, सार्वकालिक इत्यपि सर्वस्मिन् काले भव इति च ।
परिमितिकालस्य द्वौ भेदावाह—
तत्राप्याद्यः पुनर्देधा नित्यो नैमित्तिकस्तथा । आवश्यकादिको नित्यः पर्वकृत्यादिकः परः ॥ ९७ ॥
तत्रापि परिमितकालसार्वकालिकयोर्मध्ये आद्यः प्रथमः परिमितकाल: कायत्यागः पुनर्द्वैधा द्विद्विप्रकारो भवति । कस्कः ? नित्यो नैमिप्तिकस्तथा । तयोर्लक्षणमाह - भवति । कोसौ ? नित्यः कायत्यागः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org