SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ सप्तमोऽध्यायः। ५२९ मुहूर्तादिनियतसमयम् । मितः परिमितः कालो मुहूर्तादिनियतः समयो यन्त्र तत् । किंलक्षणं व्युत्सर्ग भावयेत् ? त्यागं त्यजनम् । कयोः ? तयोः। तयोरिति कोर्थः ? यः किम् ? यः स्यादुपधिः परिग्रहः। किंविशिष्टः ? बाह्यो बहिर्भव आत्मनानुपात्तः । तेन सहैकत्वमनापन्न इत्यर्थः। किंरूपोऽ सौ ? भक्तादिः आहारवसत्यादिः। न केवलं बाह्यः, अन्तरश्चान्तर्भव आत्मनोपात्तः । तेन सहैकत्वमापन्न इत्यर्थः । किंरूपोसौ ? क्रोधादिः। उकंच व्युत्सर्गः सगते धर्मे प्रायश्चित्ते तपस्यपि । पुंशक्त्यपेक्षयाऽन्वाख्यदुत्साहाय यथोत्तरम् ॥ व्युत्सर्गशब्दार्थ निरुक्त्या व्यनक्तिबाह्याभ्यन्तरदोषा ये विविधा बन्धहेतवः । यस्तेषामुत्तमः सर्गः स व्युत्सर्गों निरुच्यते ॥ ९४ ॥ हि यस्मात् स व्युत्सर्गों निरुच्यते निर्वचनगोचरीक्रियते नैरुक्तैः । यः किम् ? यः सर्गः । किंविशिष्टः ? उत्तम उत्कृष्टः । केषाम् ? तेषाम् । ये किम् ? ये बाह्याभ्यन्तरदोषाः । बाह्या पितृकलत्रादिसंसर्ग. लक्षणाः । अभ्यन्तरा ममकारादिलक्षणाः । बाह्याश्च अभ्यन्तराश्च बाह्याभ्यन्तराः । ते च ते दोषाश्च बाह्याभ्यन्तरदोषाः । किंविशिष्टाः ? बन्धहेतवो बन्धस्य कारणानि । कतिविधाः ? विविधा विचित्रा द्वयेपि । विविधानां दोषाणामुत्तमः प्राणान्तिको लाभादिनिरपेक्षश्च सर्गः सर्जनं त्यजनं व्युत्सर्ग इति व्युत्पादना । उक्तं च अशेषमद्वैतमभोग्यभोग्यं निवृत्तिवृत्त्योः परमार्थकोट्याम् । अभोग्यभोग्यात्मविकल्पबुद्ध्या निवृत्तिमभ्यस्यतु मोक्षकाङ्क्षी॥ निवृत्तिं भावयेद्यावन्निवयं तदभावतः। न वृत्तिर्न निवृत्तिश्च तदेव पदमव्ययम् ॥ रागद्वेषौ प्रवृत्तिः स्यानिवृत्तिस्तनिषेधनम् । तौ च बाह्यार्थसंबद्धौ तस्मात्तान् सुपरित्यजेत् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy