SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ ५२८ अनगारधर्मामृते सुखत तुसंप्राप्तिर्दुःखत तुवारणम् । तद्धेतुहेतवश्चान्यदपीढक् शान्तिरिष्यते ॥ जयवादो यथाजयन्ति निर्जिताशेषसर्वथैकान्तनीतयः। सत्यवाक्याधिपाः शश्वविद्यानन्दा जिनेश्वराः॥ तथा, जयन्ति विधुताशेषबन्धना धर्मनायकाः। त्वं धर्मविजयी भूत्वा तत्प्रसादाजयाखिलम् ॥ तथा,जयत्वसौ श्रीवृषभो जिनेश्वरः, सुरावधूतासितचामरावली। बभौ यदङ्गे प्रतिबिम्बिताभितो, रवेरिवान्तश्चलदिन्दुसंहतिः॥ तथा, नतामरशिरोरत्नप्रभाप्रोतनखत्विषे । नमो जिनाय दुर्वारमारवीरमदच्छिदे ॥ तथा, "स्वस्ति त्रिलोकगुरवे जिनपुङ्गवाय" इत्यादि । स्वाध्यायः । अथ व्युत्सर्ग द्विभेदमुक्त्वा द्विधैव तद्भावनामाहबाह्यो भक्तादिरूपधिः क्रोधादिश्चान्तरस्तयोः। त्यागं व्युत्सर्गमस्वन्तं मितकालं च भावयेत् ॥ ९३ ॥ भावयेत् पुनः पुनश्चेतसि निवेशयेन्मुमुक्षुः। कम् ? व्युत्सर्ग व्युसख्यं तपः । कियन्तं कालम् ? अस्वन्तं प्राणान्तम् । यावज्जीवमित्यर्थः। असवः प्राणा अन्ते यस्य सोऽस्वन्तः। न केवलं, मितकालं च १ स्वस्ति स्वभावमहिमोदयसुस्थिताय। स्वस्ति प्रसन्नललिताद्भुतवैभवाय। स्वस्ति त्रिकालसकलायतविस्तृताय ।। इति चरणत्रयमग्रे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy