________________
सप्तमोऽध्यायः ।
५२७
तत् तस्मात्कारणाद्भवति । कोसौ ? परमपुरुषमन्त्रः । किम् ? मङ्गलं, मलं गालयति मङ्गं च लातीति मङ्गलशब्दस्य व्युत्पादनात् । किंविशिष्टं मङ्गलं भवति ? परार्ध्य प्रधानम् । केषां मध्ये ? मङ्गलानां लौकिक
कल्याणानाम् । यथाह
ऐसो पंचणमोकारो सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं पढमं होइ मंगलं ॥
स्यात् च । कोसौ ? तज्जपस्तस्य परमपुरुषमन्त्रस्य जपो वाचिको मानसो वा जदयः । किं स्यात् ? श्रुतपठनतपस्या स्वाध्यायाख्यं तपः । किंविशिष्टा ? अनुत्तरा परमा । नास्त्युत्तरमुत्कृष्टं यस्याः सानुत्तरा । यथाहस्वाध्यायः परमस्तावजपः पश्चनमस्कृतेः । पठनं वा जिनेन्द्रोक्तशास्त्रस्यैकाग्रचेतसा ॥
आशीः शान्त्यादिवच वचनरूपस्यापि
मङ्गलस्यार्हद्ध्याननिष्ठस्य
कथयति
१ एष पश्ञ्चनमस्कारः सर्वपापप्रणाशनः ।
मङ्गलानां च सर्वेषां प्रथमं भवति मंगलम् ॥
।
अर्हद्ध्यानपरस्यान् शं वो दिश्यात्सदास्तु वः । शान्तिरित्यादिरूपोपि स्वाध्यायः श्रेयसे मतः ॥ ९२ ॥ मतोभिप्रेतः पूर्वाचार्यैः । कोसौ ? स्वाध्यायः । कस्मै ? श्रेयसे पुण्याय परम्परया मोक्षाय च । कस्य ? अर्हख्यानपरस्य । अर्हच्यानं परं प्रधानं यस्य तस्य । किंविशिष्टः ? अर्हन् शं वो दिश्यादिति सदास्तु वः शान्तिरिति चादिर्यस्य जयवादादेः सोयमर्हन् शं वो दिश्यात्सदास्तु वः शान्तिरित्यादिः । स एव रूपं लक्षणं यस्य स तथोक्तः । अपिशब्दो 'न केवलं वाचनादिरूपः स्वाध्यायः श्रेयसे मतः । किं तर्हि ? आशीर्वचनशान्तिवचनजयवादादिरूपोषि' इत्येवमर्थः । दिश्याद् देयात् । कोसौ ? अर्हन् अर्हद्भट्टारकः । किं तत् ? शं श्रेयः । केभ्यः ? वो युष्मभ्यम् । तथा अस्तु भवतु । कासौ ? शान्तिः । केषाम् ? वो युष्माकम् । कथम् ? सदा सर्वकालम् । शान्तिलक्षणं यथा
Jain Education International
-
For Private & Personal Use Only
श्रेयस्करत्वं
www.jainelibrary.org