________________
५२४
अनगारधर्मामृते
मङ्गला । स्तुतिर्देववन्दना । मङ्गलं च नमस्काराशीःशान्त्यादिवचनादि । स्तुतिश्च मङ्गलं च स्तुतिमङ्गले । सह ताभ्यां वर्तमाना। उक्तं च
परियट्टणा य वायण पच्छणमणुवेहणा य धम्मकहा।
थुतिमंगलसंजुत्तो पंचविहो होइ सज्झाओ ॥ धर्मकथेति त्रिषष्टिशलाकापुरुषचरितानीत्याचारटीकायाम् । धर्मकथायाश्चातुर्विध्यं दर्शयन्नाहआक्षेपणी स्वमतसंग्रहणीं समेक्षी, विक्षेपणी कुमतनिग्रहणीं यथार्हम् । संवेजनी प्रथयितुं सुकृतानुभावं, निर्वेदनीं वदतु धर्मकथां विरक्त्यै ॥ ८८॥
वदतु कथयतु शिवार्थी । किंविशिष्टः सन् ? समेक्षी सर्वत्र तुल्यदर्शी । उपेक्षाशील इत्यर्थः । काम् ? धर्मकथाम् । कीदृशीम् ? आक्षेपणीम् । किंलक्षणाम् ? स्वमतसंग्रहणीमनेकान्तसंग्रहपराम् । कथम् ? यथाई यो यो) योग्यस्तमुद्दिश्य । तथा समेक्षी धर्मकथां वदतु । कीदृशीम् ? विक्षेपणीम् । किंलक्षणाम् ? कुमतनिग्रहणीं क्षणिकैकान्तादिवादनिग्रहपराम् । कथम् ? यथार्हम् । तथा समेक्षी धर्मकथां वदतु । कीदृशीम् ? संवेजिनीं संवेगपराम् । किं कर्तुम् ? प्रथयितं प्रकाशयितुम् । कम् ? सुकृतानुभावं पुण्यफलसंपदम् । कथम् ? यथार्हम् । तथा समेक्षी धर्मकथां वदतु । कीदृशीम् ? निर्वेदनीं निर्वेदपराम् । कस्यै ? विरक्त्यै भवभोगशरीरेषु वैराग्यं जनयितुम् । कथम् ? यथार्हम् ।
स्वाध्यायसाध्यान्यभिधातुमाहप्रज्ञोत्कर्षजुषः श्रुतस्थितिपुषश्वेतोक्षसंज्ञामुषः, संदेहच्छिदुराः कषायभिदुराः प्रोद्यत्तपोमेदुराः ।
१ परिवर्तना च वाचनपृच्छनमनुप्रेक्षा च धर्मकथा।
स्तुतिमङ्गलसंयुक्तः पञ्चविधो भवति स्वाध्यायः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org