________________
सप्तमोऽध्यायः।
वा अथवा नो न पठति । पठत्येवेत्यर्थः । द्वौ नौ प्रकृतमर्थ गम. यतः । किं कुर्वन् ? पृच्छन् प्रश्नं कुर्वन् । क सति ? संशये । कथम् ? इति एवम् । हे भगवन्, किं पाठ्यं पठनीयं किं तदेतत् अक्षरं पदं वाक्यादि वा । कथम् ? एवमनेन प्रकारेण आहोखिदन्यथा वा। एष शब्दविषयः संशयः । तमर्थविषयमाह-किं स्यात् । कोसौ ? एष निरूप्यमाणोथों वाच्यम् । कस्य ? अस्य पदादेः । उतस्विदन्यार्थोस्ति । वा अथवा नो न पठति। किंकुर्वन् ? पृच्छन् । किं कर्तुम् ? द्रढयितुं द्रढीकर्तुं द्रढयिष्यामीत्यध्यवसाय । किम् ? निश्चितं निर्णीतं शब्दमर्थ वा।
अनुप्रेक्षाख्यं तद्विकल्पं लक्षवतिसानुप्रेक्षा यदभ्यासोधिगतार्थस्य चेतसा । स्वाध्यायलक्ष्म पाठोन्तर्जल्पात्मात्रापि विद्यते ॥ ८६ ॥
सा अनुप्रेक्षा स्वाध्यायभेदो भण्यते । यत्किम् ? यदभ्यासो योग्या (?) । कस्य ? अधिगतार्थस्य निश्चितवाच्यस्य । केन ? चेतसा मनसा । विद्यते चास्ति प्रतीयते वा । कोसौ ? पाठोध्ययनम् । कथंभूतः ? स्वाध्यायलक्ष्म स्वाध्यायस्य लक्षणम् । किमात्मा ? अन्तजल्पात्मा अन्तर्जल्परूपः । क ? अत्रापि एतस्यामप्यनुप्रेक्षायां, वाचनादिषु बहिर्जल्पवत् । आचारटीकाकारस्तु 'पृच्छनं शास्त्रश्रवणमऽनुप्रेक्षा वाऽनित्यत्वाद्यनुचिन्तनम्' इत्यनुप्रेक्षाख्यं स्वाध्यायविकल्पं व्याचष्टे । माम्नायं धर्मोपदेशं च स्वाध्यायभेदावाह
आम्नायो घोषशुद्धं यद्वत्तस्य परिवर्तनम् । धर्मोपदेशः स्याद्धर्मकथा सस्तुतिमङ्गला ॥ ८७॥
भण्यते आम्नायः। यत्किम् ? यत्परिवर्तनमनूद्यवचनम् । गुणनिकेत्यर्थः। कस्य ? वृत्तस्य पठितस्य शास्त्रस्य । कथं यथा भवति घोषशुद्धम् । घोष उच्चारणं शुद्धो द्रुतविलम्बितादिदोषरहितो यत्र । परिवर्तनविशेषणं चेदम् । तथा धर्मोपदेशः स्वाध्यायविकल्पः स्यात् । किं लक्षणः ? धर्मकथा धर्मस्य प्रबन्धकल्पना । किंविशिष्टा ? सस्तुति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org