________________
५२२
अनगारधर्मामृते
- उच्यते सम्यक्त्वम्। किम् ? शब्दार्थशुद्धता शब्दार्थयोः शुद्धिः । न केवलं, द्रुतविलम्बितायूनता च । द्रुतमपरिभाव्य झटित्युच्चरितम् । विलम्बितमस्थाने विश्रम्य विम्योच्चरितम् । आदिशब्देनाक्षरपदच्युतादिदोषग्रहः । द्रुतं च विलम्बितं च द्रुतविलम्बिते । ते आदी येषामक्षरच्युतादिदोषाणां ते द्रुतविलम्बितादयः । तैरूनं हीनं द्रुतविलम्बि. ताबूनम् । तस्य भावस्तत्ता। अथ वाचनालक्षणमाह । भवति । कासौ ? वाचना। किम् ? भेदो विकल्पः । कस्य ? अस्य स्वाध्यायस्य । किम् ? शुद्धग्रन्थार्थोभयदानम् । ग्रन्थः शास्त्रम् । अर्थस्तदभिधेयम् । उभयं ग्रन्थार्थद्वयम् । ग्रन्थश्वार्थश्चोभयं च ग्रन्थार्थोभयानि । शुद्धानि निरवद्यानि च तानि ग्रन्थार्थोभयानि च शुद्धग्रन्थार्थोभयानि । तेषां दानं त्यागः । क ? पात्रे विनयादिगुणयुक्त पुंसि । स्वाध्यायस्य प्रच्छनाख्यं द्वितीयं भेदं लक्षयतिप्रच्छनं संशयोच्छित्यै निश्चितद्रढनाय वा । प्रश्नोऽधीतिप्रवृत्त्यर्थत्वादधीतिरसावपि ॥ ८४ ॥ उच्यते । किं तत् ? प्रच्छनम् । किम् ? प्रश्नोनुयोगः। कस्यै ? संशयो. च्छित्त्यै ग्रन्थेर्थे तदुभये वा किमिदमित्थमन्यथा वेति संदेहमुच्छेत्तुम् । न केवलं, निश्चितद्रढनाय वा इदमित्थमेवेति निश्चितेर्थे बलमाधातुम् । कथं प्रश्नस्याध्ययनत्वं स्यायेन लक्षणस्याव्याप्तिनं भवेदिति शङ्कायामधीतीत्याद्याह । भवति । कोसौ ? असावपि प्रश्नोपि । किंभवति ? अधीतिरध्ययनम् । कस्माद् ? अधीतिप्रवृत्त्यर्थत्वात् । अधीतेरध्ययनस्य प्रवृत्तिः प्रवर्तनमधीतिप्रवृत्तिः । तस्या अर्थो निमित्तमधीतिप्रवृत्त्यर्थः । तस्य भावस्तत्त्वं तस्मात् । अध्ययनप्रवृत्तिनिमित्तत्वेन प्रश्नोप्यध्ययनमित्युच्यते । इति न सामान्यलक्षणसाव्याप्तिः । इति भावः । अथवा मुख्य एव प्रश्ने स्वाध्यायव्यपदेश इत्याहकिमेतदेवं पाठ्यं किमेषोर्थोस्येति संशये । निश्चितं वा द्रढयितुं पृच्छन् पठति नो न वा ॥ ८५॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org