________________
सप्तमोऽध्यायः ।
शय्यायामासने चोपगृहीते पठने तथा । आहारे चौषधे काये मलोज्झोत्थापनादिषु॥ मारीदुर्भिक्षचौराध्वव्यालराजनदीषु च । वैयावृत्त्यं यतेरुक्तं सपरिग्रहरक्षणम् ॥ बालवृद्धाकुले गच्छे तथा गुर्वादिपञ्चके ।
वैयावृत्त्यं जिनरुक्तं कर्तव्यं सर्वशक्तितः॥ गुणाढ्ये गुणाधिके । कृशे व्याध्याक्रान्ते । शय्यायां वसतौ । उपगृहीते उपकारे भाचार्यादिस्वीकृते वा । सपरिग्रहरक्षणं संगृहीतरक्षणोपेतम् । अथवा गुणाढ्यादीनामागतानां संग्रहो रक्षा च कर्तव्येत्यर्थः । बाला नवकप्रव्रजिताः । वृद्धास्तपोगुणवयोभिरधिकाः । गच्छे सप्तपुरुषसंताने गुर्वादिपञ्चके आचार्योपाध्यायप्रवर्तकस्थविरगणधरेषु । वैयावृत्त्यम् ।
अथ मुमुक्षोः स्वाध्याये नित्याभ्यासविधिपूर्वकं निरुक्तिमुखेन स्वाध्याय. शब्दार्थमाहनित्यं खाध्यायमभ्यस्येत्कर्मनिर्मूलनोद्यतः। स हि खस्मै हितोऽध्यायः सम्यग्वाध्ययनं श्रुतेः॥ ८२ ॥ अभ्यस्येदसकृत्प्रवर्तयेन्मुमुक्षुः । कम् ? स्वाध्यायम् । कथम् ? नित्यं शश्वत् । किंविशिष्टः सन् ? कर्मनिर्मूलनोद्यतः कर्मणां ज्ञानावरणादीनां मनोवाकायक्रियाणां वा उच्छेदनोद्युक्तः। हि यस्माद्भवति । कोसौ ? स स्वाध्यायः । किंविशिष्टः ? अध्यायोऽध्ययनम् । कस्याः ? श्रुतेः परमागमस्य । किंविशिष्टः ? हित उपकारकः । कस्सै ? स्वस्मै आत्मने संवरनिर्ज. राहेतुत्वात् । वा अथवा सु सम्यगा केवलज्ञानोत्पत्तेः श्रुतस्याध्ययनं पाठः स्वाध्याय इत्यन्वर्थाश्रयणात् । सम्यक्शब्दार्थकथनपुरस्सरं स्वाध्यायस्यायं वाचनाख्यं भेदमाहशब्दार्थशुद्धता द्रुतविलम्बिताधूनता च सम्यक्त्वम् । शुद्धग्रन्थार्थोभयदानं पात्रेस्य वाचना भेदः ॥ ८३ ॥ १ 'श्रुतेः' इति मूलोक्तः पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org