________________
५२०
अनगारधर्मामृते
स एवम् । किंविशिष्टाम् ? तत्पथघातिनीं मुक्तिमागच्छेदिनीम् । केषाम् ? तेषां मुक्तयुयुक्तानाम् । किं कुर्वन् ? अवस्यन् निश्चिन्वन् । किंवत् ? स्ववत् आत्मन इव । साधूनां विपदं स्वस्यैव जानन्नित्यर्थः । कया शमयति ? अङ्गवृत्त्या कायचेष्टया अथवा योग्यद्रव्यनियोजनेन संयमाविरोध्यौषधान्नवसत्यादिप्रयोगेण । वा अथवा यो विकर्षति दूरीकरोति । किं तत् ? मिथ्यात्वादिविषं मिथ्यादर्शनमिथ्याज्ञानाविरतिप्रमादकषाययोगगरलम् । केन ? उद्घोपदेशेन विस्तीर्णशिक्षाप्रयोगेण ।
साधर्मिकविपदुपेक्षिणो दोषं प्रकाश्य वैयावृत्यस्य तपोहृदयत्वं समर्थयतेसधर्मापदि यः शेते स शेते सर्वसंपदि । वैयावृत्त्यं हि तपसो हृदयं ब्रुवते जिनाः ॥ ८० ॥
यः पुमान् शेते स्वपिति निर्व्यापारो भवति । कस्याम् ? सधर्मापदि । समानो धर्मो रत्नत्रयलक्षणो येषां ते सधर्माणः । तेषामापदि विपदि । स शेते स्वपिति । कस्याम् ? सर्वसंपदि । सर्वा चासौ संपच्च पुरुषार्थ संपतिस्तस्याम् । हि यस्माद् ब्रुवते कथयन्ति । के ? जिना अर्हन्तः । किं तत् ? वैयावृत्त्यम् । किंविशिष्टम् ? हृदयमन्तस्तत्त्वम् । कस्य ? तपसो
बाह्यस्याभ्यन्तरस्य च ।
भूयोपि वैयावृत्यसाध्यमाह -
समाध्याधानसानाथ्ये तथा निर्विचिकित्सता । सधर्मवत्सलत्वादि वैयावृत्त्येन साध्यते ॥ ८१ ॥
साध्यते जन्यते ज्ञाप्यते वा । केन ? वैयावृत्येन । किं किम् ? समाध्या ध्यानसानाथ्ये समाधेरेकाग्रचिन्ता निरोधस्याधानमापादनम् । सना थस्य भावः सानाध्यं सस्वामिकत्वम् । समाध्याधानं च सानाथ्यं च ते तथा निर्विचिकित्सता निःसूकत्वम् । तथा सधर्मवत्सलत्वादि साध र्मिकवात्सल्यम् । आदिशब्देन वक्ष्यमाणार्थग्रहणम् । उक्तं च—
गुणाढ्ये पाठके साधौ कृशे शैक्षे तपस्विनि । सपक्षे समनुज्ञाते संघे चैव कुले गणे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org