________________
सप्तमोऽध्यायः।
५१९
अथ निर्वचनलक्षितलक्षणे वैयावृत्त्ये तपसि मुमुखं प्रयुङ्क्ते-- क्लेशसंक्लेशनाशायाचार्यादिदशकस्य यः। व्यावृत्तस्तस्य यत्कर्म तद्वैयावृत्त्यमाचरेत् ।। ७८॥
आचरेदनुतिष्ठेन्मुमुक्षुः । किं तत् ? तद्वैयावृत्त्यं नामाभ्यन्तरतपोविशेषः । यत्किम् ? यत्कर्म मनोवावायव्यापारः । कस्य ? तस्य तपस्विनः श्रावकस्य वा । यः किम् ? यस्तपस्वी श्रावको वा भवति । किंविशिष्टः ? व्यावृत्तः प्रवृत्तः । कस्मै ? क्लेशसंक्लेशनाशाय । क्लेशः कायपीडा । संक्लेशो दुष्परिणामः । आर्तरौद्रध्याने इति यावत् । क्लेशश्च संक्लेशश्च क्लेशसंक्लेशौ । तयो शो विच्छेदस्तस्मै । कस्य संबन्धित्वेन ? आचार्यादिदशकस्य आचार्यादीनामाचार्योपाध्यायतपस्विशैक्षग्लानगणकुलसंघसाधुमनोज्ञानां दशकं दशतयं, तस्य । आचरन्ति तस्माद्रतानीत्याचार्यः । मोक्षार्थ शास्त्रमुपेत्य तस्मादधीयते इत्युपाध्यायः । महोपवासाद्यनुष्ठायी तपस्वी । शिक्षाशीलः शैक्षः । रुजादि क्लिष्टशरीरो ग्लानः । स्थविरसंततिर्गणः । दीक्षकाचार्यशिक्षसंस्त्यायस्त्रीपुरुषसंतानरूपः कुलम् । चातुर्वण्यं श्रमणनिवहः संघः । चिरप्रजितः साधुः । लोकसंमतो मनोज्ञः ।
वैयावृत्त्यफलमाहमुक्त्युद्युक्तगुणानुरक्तहृदयो यां कांचिदप्यापदं, तेषां तत्पथघातिनी स्ववदवस्यन्योङ्गवृत्त्याथवा । योग्यद्रव्यनियोजनेन शमयत्युद्घोपदेशेन वा, मिथ्यात्वादिविषं विकर्षति स खल्वार्हन्त्यमप्यर्हति ॥७९॥ स महात्मा खलु निश्चयेनार्हति अधिकरोति । प्राप्नोतीत्यर्थः । किं तत् ? आर्हन्त्यं तीर्थकरत्वम् । अपिशब्दः का गणनेन्द्राहमिन्द्रचक्रवर्तित्वादिपदानामित्येवमर्थः । यः किम् ? यः शमयति निराकरोति । काम् ? यां कांचिदपि दैवीं मानुषीं तैरश्चीमचेतनकृतां वाऽऽपदम् । किंविशिष्टः सन् ? मुक्त्युद्युक्तगुणानुरक्तहृदयः।मुक्तावुद्युक्ता उद्यताः साधवो मुक्त्युधुक्ताः। तेषां गुणाः संयमविकल्पाः । तेष्वनुरक्तमासक्तं हृदयं मनो यस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org