________________
५१८
अनगारधर्मामृते
कार्य कर्तव्यं शिवार्थिभिः । किं तत् ? विनयभावनं विनयस्यासकृत्प्रवर्तनम् । किमर्थम् ? ज्ञानलाभार्थ तथा आचारविशुद्ध्यर्थम् । पञ्चानामाचाराणां निर्मलीकरणार्थम् । तथाऽऽराधनादिसंसिद्ध्यै । आराधनायाः सम्यग्दर्शनादिनिर्मलीकरणादिलक्षणायाः | आदिशब्दाद्वक्ष्यमाणार्श्वस्य च संसिद्ध्यै सम्यग् निर्वृत्यर्थम् ।
आराधनादीत्यत्रादिशब्द संगृहीतमर्थजातं व्याकर्तुमाहद्वारं यः सुगतेगणेशगणयोर्यः कार्मणं यस्तपो,वृत्तज्ञानऋजुत्वमार्दवयशः सौचित्यरत्नार्णवः । यः संक्लेशदवाम्बुदः श्रुतगुरुद्योतैकदीपश्च यः, स क्षेप्यो विनयः परं जगदिनाज्ञापारवश्येन चेत् ॥ ७७ ॥ स विनयः परं केवलं चेद् यदि । क्षिप्यः कुत्स्यो व्यपोह्यो वाडनात्मनीनैः । केन ? जगदिनाज्ञापारवश्येन । जगत लोकानामिनो नाथो जगदिनो विश्वनाथः । तस्याज्ञा शासनम् । तत्र पारवश्यं परवशता, तेन । विनयो हि वर्तमानो विश्वनाथाज्ञापरायत्तः स्यात् । अनेन काकुवचto विनयस्यावश्यकरणीयतां लक्षयति । तदेव समर्थयमानः प्राह द्वारमित्यादि । यो विनयः स्यात् । कीदृशः ? द्वारमुपायः । कस्याः ? सुगतेमोक्षस्य, सकलकर्मक्षयहेतुत्वात् स्वर्गस्य वा प्रचुरपुण्यास्रवनिमित्तत्वात् । तथा यो विनयः कार्मणं वशीकरणं स्यात् । कयोः ? गणेशगणयोः संघनाथसंघयोः । तथा यो विनयस्तपोवृत्तज्ञानऋजुत्वमार्दवयशः सौचित्यरत्नार्णवः स्यात् । सौचित्यं गुर्वाद्यनुग्रहणवैमनस्यनिवृत्तिः । तपोवृत्तादीनि व्याख्यातार्थानि । तपश्च वृत्तं च ज्ञानं चर्जुत्वं च मार्दवं च यशश्च सौचित्यं च । तान्येव रत्नानि दुर्लभत्वादनर्घत्वाच्च । तेषामर्णवः समुद्रः संभूतिहेतुत्वात् । तथा यो विनयः संक्लेशदवाम्बुदः स्यात् । संक्लेशो रागादिपरिणामः । स एव दवो दावाग्भिः । तत्राम्बुदो मेघः, प्रश महेतुत्वात् । तथा यो विनयः श्रुतगुरुद्योतैकदीपश्च स्यात् । श्रुतमनाऽऽचारोक्कक्रमज्ञत्वं कल्पज्ञत्वं च गृह्यते । गुरुः सदाम्नायोपदेष्टा च । श्रुतं च गुरुश्च श्रुतगुरू । तयोरुद्योतः प्रकाशः । तत्रैक उत्कृष्टो दीपः प्रदीपो, गृहस्येव श्रुतगुर्वोः प्रकाशहेतुत्वात् ॥ विनयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org