________________
सप्तमोऽध्यायः।
५१७
रादिणिए उणरादिणिएसु अ अजाणु चेव गिहिवग्गे । विणओ जहारिहो सो कायव्वो अप्पमत्तेण ॥
रादिणिए राज्यधिके दीक्षागुरौ श्रुतगुरौ तपोधिके चेत्यर्थः । उणरादिणिएसु ऊनरात्रेषु तपसा गुणैर्वयसा च कनिष्ठेषु साधुष्वित्यर्थः । तपोविनयमाह
यथोक्तमावश्यकमावहन् सहन्, परीषहानग्रगुणेषु चोत्सहन् । भजस्तपोवृद्धतपांस्यहेलयन्,
तपोलघूनेति तपोविनीतताम् ॥ ७५ ॥ एति गच्छति तपस्वी । काम् ? तपोविनीततां तपोविनयम् । किं कुर्वन् ? आवहन् भजन् । किं तत् ? आवश्यकम् । किंविशिष्टम् ? यथोक्तमुक्तस्यानतिक्रमेण । अवश्यं कर्म व्याध्यादिपरवशेनापि क्रियते इति कृत्वा । अथवा अवश्यस्य रागादिभिरनायत्तीकृतस्य कर्म इति विगृह्य "द्वन्द्वमनोज्ञादेः ॥३।४।१२३॥” इत्यनेन वुञ् । तथा सहन् सहमानः । कान् ? परीषहान् क्षुदादीन् । तथोत्सहन् उत्सहमानः । केषु? अग्रगुणेषूत्तरगुणेष्वातापनादिषु संयमविशेषेषु वा उपरिमगुणस्थानेषु वा । तथा भजन सेवमानः । कानि ? तपोवृद्धतपांसि । तपांसि वृद्धान्यधिकानि येषां ते तपोवृद्धाः । न पुनस्तपसा वृद्धा इति, "भाया ओजः सहोम्भस्तपोञ्जस ॥४॥३॥१२२॥" इत्यनुषङ्गात् । तपांस्यनशनादीनि । तपोवृद्धाश्च तपांसि चेति द्वन्द्वः। तथाऽहेलयन् अनवजानन् अवज्ञाविष. यानकुर्वन् । कान् ? तपोलघून् । तपो लघु अल्पं येषां ते तपोलघवस्तान्। स्वस्मात्तपसा हीनानपि यथास्वं संभावयन्नित्यर्थः। चशब्दो भिन्नप्रक्रमोत्र समुच्चयार्थो योज्यः। विनयभावनायाः फलमाहज्ञानलाभार्थमाचारविशुद्ध्यर्थं शिवार्थिभिः । आराधनादिसंसिद्ध्यै कार्य विनयभावनम् ॥ ७६ ॥ १-रात्र्यधिके ऊनरात्रेषु च आर्यान्......गृहवर्गे । विनयो यथार्हः स कर्तव्योऽप्रमत्तेन ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org