________________
अनगारधर्मामृते
औपचारिकविनयस्य मानसभेदमाहनिरुन्धनशुभं भावं कुर्वन् प्रियहिते मतिम् । आचार्यादेरवाप्नोति मानसं विनयं द्विधा ॥७३॥ अवाप्नोति लभते तपस्वी । कम् ? विनयम् । किंविशिष्टम् ? मानसं मनसि भवम् । कतिधा ? द्विधा द्विप्रकारम् । किं कुर्वन् ? रुन्धन् निगृ. इन् । कम् ? भावं परिणामम् । किंविशिष्टम् ? अशुभं सम्यक्त्वविराधनप्राणिवधादिकम् । न केवलं, कुर्वन् । काम् ? मतिं बुद्धिम् । क प्रियहिते प्रियं धर्मोपकारकम् । हितं सम्यक्त्वज्ञानादिकम् । प्रियं च हितं च प्रियहितं तस्मिन् । कस्य संबन्धित्वेन ? आचार्यादेः सूर्युपाध्यायस्थविरप्रवर्तकगणधरादेः । उक्तं चअहं उपचरिओ खलु जो विणओ तिविहो समासदो भणिओ। सो सग चउविह दुविहो बोधब्बो आणुपुवीए ॥ परोक्षगुर्वादिगोचरमौपचारिकविनयं त्रिविधं प्रति प्रयुङ्क्ते-- वाङ्मनस्तनुभिः स्तोत्रस्मृत्यञ्जलिपुटादिकम् । परोक्षेष्वपि पूज्येषु विदध्याद्विनयं त्रिधा ॥ ७४ ॥ . विदध्यात् कुर्यान्मुमुक्षुः । किम् ? विनयम् । कतिधा ? विधा। किंविशिष्टम् ? स्तोत्रस्मृत्यअलिपुटादिकम् । काभिः ? वाङ्मनस्तनुभिः । वाचा स्तवनजयवादआशीर्वादादिकम् । मनसा स्मरणगुणचिन्तनादिकम् । कायेन हस्तयोजनप्रणामादिकम् । केषु विदध्यात् ? पूज्येषु दीक्षागुरुश्रुतगुरुतपोधिकेषु । किंविशिष्टेषु ? परोक्षेषु इन्द्रियाविषयेषु । अपिशब्दात्तपोगुणवयःकनिष्ठेष्वार्येषु श्रावकेषु च यथार्ह विनयकरणं लक्षयति । यथाहु:
१-अथ उपचरितः खलु यो विनय स्त्रिविधः समासतो भणितः ।
स सप्तचतुर्विविधद्विविधो बोद्धव्य आनुपूर्व्या ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org