SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ सप्तमोऽध्यायः। साक्षाहुरुषु प्रत्यक्षेष्वाराध्येषु । किंविशिष्टः? सप्तप्रकारः । केन ? अङ्गेन शरीरेण । कथम् ? अभ्युत्थानोचितवितरणोच्चासनायुज्झनानुबज्या: । अभ्युत्थानमादरेणासनादेरुत्थानम् । उचितवितरणमुचितस्य योग्यस्य पुस्तकादेर्दानम् । उच्चासनाधुज्झनमुच्चविष्टरोपवेशस्थानगमनादिवजनम् । अनुव्रज्या प्रस्थितेन सह किंचिद्गमनम् । अभ्युत्थानं चोचितवितरणं चोच्चासनाधुज्झनं चानुव्रज्या च ताश्चतस्रः। न केवलं, पीठाद्युपनयविधिः। पीठमांसनमादिर्यस्य शयनादेस्तत्पीठादि । तस्योपनयविधिरूपढौकनकरणम् । न केवलं, कृत्याचारः कर्माचरणम् । किंविशिष्टः ? कालभावाकुयोग्यः । कालयोग्य उष्णकालादिषु शीतादिक्रिया भावयोग्यः प्रेषणादिकरणम् । अङ्गयोग्यः शरीरबल योग्यं मर्दनादिः। कालश्च भावश्चाङ्गंच कालभावाङ्गानि । तेषां योग्यः । उक्तं च पडिरूवकायफासणदाणं पडिरूवकालकिरिया य । पेसणकरणं सत्थारकरणमुपकरणपडिलिहणं ॥ न केवलं, प्रणतिः प्रणामश्च । च शब्दोन भिन्नप्रक्रमः समुच्चयार्थोत्र योज्यः । इति शब्दादेवं प्रकारोन्योपि संमुखगमनादिबोद्धव्यः । औपचारिकविनयस्य वाचिकभेदमाहहितं मितं परिमितं वचः सूत्रानुवीचि च । ब्रुवन् पूज्यांश्चतुर्भेदं वाचिकं विनयं भजेत् ॥ ७२ ॥ भजेन्मुमुक्षुः । कम् ? विनयम् । किंविशिष्टम् ? वाचिकं वाचि भवम् । पुनः किंविशिष्टम् ? चतुर्भेदं चत्वारो भेदा यस्य तम् । किं कुर्वन् ? वन् वदन् । किं तत् ? हितादि वचः। कान् ? पूज्यानाराध्यान् गुर्वादीन् । हितं धर्मसंयुक्तम् । मितमल्पाक्षरबह्वर्थम् । परिमितं कारणसहितम् । सूत्रानुवीचि आगमार्थाविरुद्धम् । च शब्दाद्भगवमित्यादिपजापुरस्सरं वचनं वाणिज्याद्यवर्णकं वाक्यं च । १ प्रतिरूपकायस्पर्शनदानं प्रतिरूपकालक्रिया च । प्रेषणकरणं संस्तरकरणमुपकरणप्रतिलेखनम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy