________________
५१४
अनगारधर्मामृते
मनोज्ञाः । अरुच्या अमनोज्ञाः । रुच्याश्चारुच्याश्च रुच्यारुच्याः। ते च ते हृषीकगोचराश्चेन्द्रियार्थाः । तेषु रतिद्वेषौ रागद्वेषौ । रुच्येषु विषयेषु रागोऽरु. ज्येषु च द्वेष इत्यर्थः । तयोरुज्झनं त्यागस्तेन। न केवलम्, उच्छलत्क्रोधादिच्छिदया उन्मीलत्क्रोधमानमायालोभखण्डनया। लाक्षणिकोत्र च्छिदाशब्दः। न केवलम्, उद्योगेन उत्साहेन । कासु ? समितिषु । कथम् ? अ. सकृद्वारं वारम् । न केवलं, गुस्यास्थया शुभमनोवाक्कायक्रियास्वादरेण । न केवलं सामान्येतरभावनापरिचयेनापि । सामान्यं चेतरो विशेषश्च सामान्येतरौ । ताभ्यां भावनाः संस्काराः सामान्येतरभावनाः। सामान्येन मा भूत्कोपीह दुःखीत्यादिना । विशेषेण निगृह्णतो वाकानसी इत्यादिना अन्थेन प्रागुक्ताः । सामान्येतरभावनाभिः परिचयः संबन्धस्तेन । अपिः समुच्चये। चारित्रविनयाचारित्राचारस्य को विशेष इति प्रश्ने सत्याचष्टेसमित्यादिषु यत्नो हि चारित्रविनयो मतः। तदाचारस्तु यस्तेषु सत्सु यत्नो व्रताश्रयः ॥ ७० ॥ हि यस्मान्मतः। कोसौ ? चारित्रविनयः । किंरूपः ? यत्नः। केषु? समित्यादिषु । तदाचारस्तु चारित्राचारः पुनर्मतः पूर्वसूरिभिः । यः किम् ? यः स्यात् । कोसौ ? यत्नः। किंविशिष्टो? व्रताश्रयः। केषु सत्सु ! तेषु समित्यादिषु ।
प्रत्यक्षपूज्यविषयस्यौपचारिकविनयस्य कायिकभेदं सप्तप्रकारं व्याकर्तुमाह
अभ्युत्थानोचितवितरणोच्चासनायुज्झनानु,व्रज्या पीठाधुपनयविधिः कालभावाङ्गयोग्यः। कृत्याचारः प्रणतिरिति चाङ्गेन सप्तप्रकारः, कार्यः साक्षाद्रुषु विनयः सिद्धिकामैस्तुरीयः ॥७१ ॥ कार्यः कर्तव्यः। कोसौ ? विनयः । किंविशिष्टः ? तुरीयश्चतुर्थः । औपचारिक इत्यर्थः । कैः ? सिद्धिकामैः स्वात्मोपलब्धिमिच्छद्भिः । केषु ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org