________________
सप्तमोऽध्यायः।
५१३
शुद्धव्यञ्जनवाच्यतयः । तस्य भावस्तत्ता, तया । शब्दार्थतदुभयावैपरीत्येनेत्यर्थः । न केवलं, गुर्वादिनामाख्यया उपाध्यायचिन्तापकाध्येतव्य नामधेयकथनेन । गुरुरुपाध्याय आदिर्येषां चिन्तापकादीनां ते गुवादयः। तेषां नाम । तस्याख्या कथनं, तया । न केवलं, योग्यावग्रहधारणेन यो यत्र सूत्रेऽध्येतव्ये तपोविशेष उक्तस्तदवलम्बनेन । योगाय श्रुतसंबन्धाय प्रभवतीति योग्यः । स चासाववग्रहश्च । तस्य धारणं तेन । न केवलं, भक्त्यापि अनुरागेण । क ? समये प्रवचने । न केवलं, तद्भाजि च । तं समयं भजते इति तदाक्, तस्मिन् तदाजि । श्रुत. धरे चेत्यर्थः । ज्ञानविनयाज्ज्ञानाचारस्य को भेद इति पृच्छन्तं प्रत्याहयत्नो हि कालशुद्ध्यादौ स्याज्ज्ञानविनयोत्र तु । सति यत्नस्तदाचारः पाठे तत्साधनेषु च ॥ ६८॥ हि यस्मात् स्यात् । कोसौ ? ज्ञानविनयः । किंलक्षणः ? यत्नः। क्क ? कालशुद्ध्यादौ कालशुद्धौ व्यञ्जनादिशुद्धौ गुर्वादिनामाख्यादौ च । अत्र तु कालशुद्धयादौ पुनः सति यत्नस्तदाचारो ज्ञानाचारः स्यात् । क यत्नः ? पाठे श्रुताध्ययने । न केवलं, तत्साधनेषु च पुस्तकादिषु । चारित्रविनयं व्याचष्टेरुच्याऽरुच्यहषीकगोचररतिद्वेषोज्झनेनोच्छलतक्रोधादिच्छिदयाऽसकृत्समितिषूद्योगेन गुप्त्यास्थया । सामान्येतरभावनापरिचयेनापि व्रतान्युद्धरन्, धन्यः साधयते चरित्रविनयं श्रेय श्रियः पारयम् ॥ ६९ ॥
धन्यः सुकृती साधयते जनयति । कम् ? चरित्रविनयम् । किंविशिष्टम् ? पारयं समर्थ पोषकं वा। कस्याः ? श्रेयाश्रियः स्वर्गापवर्गलक्ष्म्याः । किं कुर्वन् ? उद्धरन् निर्मलीकुर्वन् । कानि ? व्रतानि अहिंसादीनि । केन ? रुच्यारुच्यहृषीकगोचररतिद्वेषोज्झनेन । रुच्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org