________________
५१२
अनगारधर्मामृते
दर्शनविनयादर्शनाचारस्य को विशेष इत्यनुयोगे सत्याचष्ठेदोषोच्छेदे गुणाधाने यतो हि विनयो दृशि । दृगाचारस्तु तत्त्वार्थरुचौ यत्नो मलात्यये ॥६६॥ हि यस्माद्भवति । कोसौ ? विनयः । कस्याम् ? दृशि दर्शने । किं रूपः ? यत्नः प्रयत्नः। क ? दोषोच्छेदे मलनिर्मूलने। न केवलं, गुणादाने गुणापादने च । दृगाचारस्तु दर्शनाचारः पुनर्भवति । कोसौ ? यत्नः। कस्याम् ? तत्त्वार्थरुचौ तत्वार्थश्रद्धाने ।क सति ? मलात्यये शङ्कायभावे सति । सम्यग्दर्शनादीनां हि निर्मलीकरणे यत्नं विनयमाहुः । तेष्वेव च निर्मलीकृतेषु यत्नमाचारमाचक्षते । .
अष्टधा ज्ञानविनयं विधेयतयोपदिशतिशुद्धव्यञ्जनवाच्यतद्वयतया गुर्वादिनामाख्यया, योग्यावग्रहधारणेन समये तद्भाजि भक्त्यापि च । यत्काले विहिते कृताञ्जलिपुटस्याव्यग्रबुद्धेः शुचेः, सच्छास्त्राध्ययनं स बोधविनयः साध्योष्टधापीष्टदः ६७ ॥
स बोधविनयो ज्ञानविनयः साध्यो निर्वर्तनीयः स्याच्छिवार्थिभिः । किंविशिष्टः ? इष्टदः । इष्टमभ्युदयनिःश्रेयसलक्षणं फलं ददातीति । कतिधापि ? अष्टधापि अष्टप्रकारोपि । यत् किम् ? यत् सच्छास्त्राध्य. यनं युक्त्यनुगृहीतपरमागमपाठः । उपलक्षणाद्गुणनं व्याख्यानं शास्त्रट्याचरणं च । क ? काले । किंविशिष्टे ? विहिते स्वाध्यायवेलालक्षणे । कस्य ? साधोः। किंविशिष्टस्य ? कृताञ्जलिपुटस्य मुकुलीकृतसपिच्छहस्तयुगलस्य । पुनः किंविशिष्टस्य ? अव्यग्रबुद्धेरेकाग्रचित्तस्य । पुनरपि किंविशिष्टस्य ? शुचेर्मनोवाकायशुद्धिमतः । कया ? शुद्धव्यञ्जनवाच्यतद्वयतया । व्यञ्जनं श्रुतवचनम् । वाच्यं श्रुतार्थः । तद्द्वयं व्यञ्जनवाच्ययोरुभयम् । व्यञ्जनं च वाच्यं च तदद्वयं च व्यञ्जनवाच्यतवयानि । शुद्धानि निरवद्यानि व्यञ्जनवाच्यतद्द्वयानि यस्य सोयं
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org