SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ सप्तमोऽध्यायः। दसणणाणे विणओ चरित्त तव ओवचारिओ विणओ। पंचविहो खलु विणओ पंचमगइणायगो भणिओ ॥ सम्यक्त्वविनयं लक्षयन्नाहदर्शनविनयः शङ्काद्यसनिधिः सोपगृहनादिविधिः । भक्त्यर्चावर्णावर्णहृत्यनासादना जिनादिषु च ॥६५॥ भवति। कोसौ ? दर्शनविनयः। किंरूपः ? शङ्काद्यसन्निधिः शङ्काकाङ्क्षाविचिकित्सापरदृष्टिप्रशंसानायतनसेवानां मलानामसन्निधिः दूरीकरणम् वर्जनमित्यर्थः । किंविशिष्टः ? सोपगृहनादिविधिः सहोपगृहनस्थितीकरणवात्सल्यप्रभावनाभिर्विधिभिः प्रकारैर्वर्तमानः शङ्कादिदूरीकरणमुप. गृहनादिगुणाश्च दर्शनविनयः स्यादित्यर्थः । न केवलं, भक्त्यर्चावर्णावर्णहत्यनासादनाश्च । केषु ? जिनादिषु अर्हत्सिद्धादिषु । भक्तिरहदादीनां गुणानुरागः । तथाऽर्चा द्रव्यभावपूजा । तथा वर्णो विदुषां परिषदि युक्तिबलाद्यशोजननम् । तथा अवर्णहृतिमाहात्म्यसमर्थनेनासद्भूतदोषोभावनाशनम् । तथाऽनासादना अवज्ञानिवर्तनम् । आदरकरणमित्यर्थः । भक्तिश्वा! च वर्णश्वावर्णहृतिश्चानासादना च भक्त्यर्चाववर्णहृत्यनासादनाः पञ्च । उक्तं च अरहंतसिद्धचेइ य सुदेव धम्मे य साधुवग्गे य । आइरियउवज्झाए सुपवयणे दंसणे चावि ॥ भत्ती पूआ वण्णजणणं च णासणमवण्णवादस्स ॥ आसादणपरिहारो दसणविणओ समासेण। १ दर्शनशाने विनयश्चारित्रं तप औपचारिको विनयः पञ्चविधः खलु विनयः पञ्चमगतिनायको भणितः ॥ २ अर्हत्सिद्धचैत्ये च सुदेवधर्मे च साधुवर्गे च । आचार्य उपाध्याये सुप्रवचने दर्शने चापि ॥ भक्तिः पूजा वर्णजननं च नाशनमवर्णवादस्य । आसादनपरिहारो दर्शनविनयः समासेन ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy