________________
५१०
अनगारधर्मामृते
वर्तते । कासौ ? अर्हद्रूपसंपद् आचेलक्यादिलिङ्गविकल्पः। किम् ? सारमुपादेयम् । इष्टफलमिति यावत् । क ? सुमानुषत्वे आर्यत्वकुलीनस्वादिगुणोपेते मनुष्यत्वे । इह चाहद्रूपसंपदि आहती जैनी शिक्षा सारं स्यात् । अस्यां चाहत्यां शिक्षायां सम्यग्विनयः सारं स्यात् । अस्मिश्च सम्यग्विनये गुणाः समाध्यादयः स्युः। किंविशिष्टाः ? काम्याः स्पृहणीयाः । केषाम् ? सतां सत्पुरुषाणाम् । विनयहीनस्य शिक्षाया विफलत्वमाहशिक्षाहीनस्य नटवल्लिङ्गमात्मविडम्बनम् । अविनीतस्य शिक्षापि खलमैत्रीव किंफला ॥ ६३॥ भवति । किं तत् ? लिङ्गमाचेलक्यादि। किंविशिष्टम् ? आत्मविडम्बनं तस्यापहसनीयम् । कस्य ? शिक्षाहीनस्य । किंवत् ? नटव. नर्तकस्य यथा । किंफला निष्फला अनिष्टफला वा स्यात् । कासौ ? शिक्षापि । कस्य ? अविनीतस्य । विनयहीनस्य । किंवत् ? खलमैत्रीव दुर्जनस्य सख्यं यथा।
विनयस्य तत्वार्थमतेन चातुर्विध्यमाचारादिशास्त्रमतेन च पञ्चविधत्वं स्यादित्युपदिशतिदर्शनज्ञानचारित्रगोचरश्चौपचारिकः । चतुर्धा विनयोऽवाचि पञ्चमोपि तपोगतः ॥ ६४॥ अवाचि उक्तस्तत्त्वार्थचिन्तकैः । कोसौ ? विनयः। कतिधा ? चतुर्धा कस्कः ? दर्शनशानचारित्रगोचरो दर्शनाश्रयो ज्ञानाश्रयश्चारित्राश्रयश्चेत्यर्थः । न केवलम्, औपचारिकश्च उपचारे धार्मिके चित्तानुग्रहे भवस्तत्प्रयोजनो वा उपचार एवौपचारिक इति वा, “विनयादेः” इत्यनेन स्वार्थिके ठणि सति । न केवलं चतुर्धा विनयोऽवाचि। पञ्चमोपि पञ्चमश्चाचारादिशास्त्रचिन्तकैरक्तः । कथंभूतः ? तपोगतस्तपस्याश्रयः । तपोविनय इत्यर्थः । उक्तंच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org