SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ सप्तमोऽध्यायः । असंख्येयाः संख्यातीताश्च ते लोकाश्च असंख्येयलोकाः । ते परिमाणमासामित्यसंख्येय लोकमात्राः ता भिदो यस्येति विग्रहः । प्रायश्चित्तम् । अथ विनयाख्यतपोविशेषलक्षणार्थमाह -- ५०९ स्यात् कषायहृषीकाणां विनीतेर्विनयोथवा । रत्नत्रये तद्वति च यथायोग्यमनुग्रहः || ६० ॥ स्यादु भवेत् । कोसौ ? विनयः । कुतः ? विनीतेर्विहिते प्रवर्तनात् सर्वथा विरोधाद्वा । केषाम् ? कषायहृषीकाणां क्रोधादिकषायाणां स्प शैनादीन्द्रियाणां च । अथवा स्याद्विनयः । कोसौ ? अनुग्रह उपकारः । क्व ? रत्नत्रये सम्यग्दर्शनादौ । न केवलं तद्वति च रत्नत्रययुक्ते पुंसि चकाराद्वलत्रयतद्भाचकानुग्राहीणि नृपादौ च । कथम् ? यथायोग्यं यथो. चितम् । , www विनयशब्दनिर्वचनपुरस्सरं तत्फलमुपदर्शयंस्तस्यावश्यकर्तव्यतामुपदिशतियद्विनयत्यपनयति च कर्मासत्तं निराहुरिह विनयम् । शिक्षायाः फलमखिलक्षेमफलश्चेत्ययं कृत्यः || ६१ ॥ Jain Education International निराहुर्निरुक्तिगोचरी कुर्वन्ति नैरुक्ताः । कम् ? तं विनयम् । क ? इह मोक्षप्रकरणे । यत्किम् ? यद्विनयति । कोर्थः ? अपनयति । कोसौ ? विनयः । किं तत् ? कर्म । किंविशिष्टम् ? असद प्रशस्तम् । च शब्दाद्विशेषेण स्वर्गापवर्गौ नयति च । अयं च विनयः कृत्योऽवश्यकरणीयो मुमुक्षुभिः । कुतः ? इति हेतोः । यतश्च भवति । कोसौ ? विनयः । कथंभूतः ? फलं साध्यम् । कस्याः ? शिक्षाया जिनवचनविद्योपादानस्य । न केवलम्, अखिलक्षेमफलश्च । अखिलानि सकलानि क्षेमाणि कल्याणानि फलं यस्य स एवम् । विनयस्य शिष्टाभीष्टगुणैकसाधनत्वमाह सारं सुमानुषत्वेऽर्हद्रूपसंपदिहार्हती । शिक्षास्यां विनयः सम्यगस्मिन् काम्याः सतां गुणाः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy