________________
५०८
अनगारधर्मामृते
प्रयोक्तव्या अनुष्ठेया । कासौ ? सा पूर्वोक्ता एषा अनन्तरोक्ता शुद्धिः प्रायश्चित्तम् । किंविशिष्टा ? दशतयी दशावयवा । कैः ? शिवार्थिभिर्निः श्रेयसकामैः । कथम् ? यथादोषं यो योऽतीचारस्तमुद्दिश्य । कया? बल. कालाद्यपेक्षया । बलं च कालश्व बलकालौ । तावादी येषां सत्वसंहननादीनां तानि बलकालादीनि । तेषामपेक्षा विवक्षा, तया। केव ? चिकिसेव । यथा प्रयुज्यते । कासौ ? चिकित्सा । कैः ? शिवाणिभिरारोग्यकामैः । कथम् ? यथादोषं दोषस्य वातादेरनतिक्रमेण । कया? बलकालाद्यपेक्षया बलकालदूष्यादीनपेक्ष्य । उक्तं च
दृष्यं देशबलं कालमनलं प्रकृति वयः। सत्त्वं सात्म्यं तथाहारमवस्थाश्च पृथग्विधाः॥ सूक्ष्मसूक्ष्माः समीक्ष्यैषां दोषौषधिनिरूपणे।
यो वर्तते चिकित्सायां स न स्खलति जातुचित् ॥ एवं दशधा प्रायश्चित्तं व्यवहारनयाद् व्याख्याय निश्चयनयात्तद्धेदपरिमाणनिर्णयार्थमाह
व्यवहारनयादित्थं प्रायश्चित्तं दशात्मकम् । निश्चयात्तदसंख्येयलोकमात्रभिदिष्यते ॥ ५९ ॥
भवति । किं तत् ? प्रायश्चित्तम् । किंविशिष्टम् ? दशात्मकं दश. विकल्पम् । कथम् ? इत्थमनन्तरोक्तेन प्रकारेण । कसात् ? व्यवहारनयादुपचारनयादेशात् । इष्यते च । किं तत् ? तत् प्रायश्चित्तम् । किंविशिष्टम् ? असंख्येयलोकमात्रभिदू । असंख्येयलोकमात्रा भिदो विकल्पा यस्य तदेवम् । कस्मात् ? निश्चयात् परमार्थनयाद्, व्यक्ताव्यक्तप्रमादानां तावतामेव सूत्रे निर्णयात् । लोकः प्रमाणविशेषः । उक्तं च
पल्लो सायर ई सुपदरो य घणंगुलो य जगसेढी। लोगपद्रो य लोगो अपमाणा मुणेदव्वा ॥ १ पल्यः सागरः सूची प्रतरश्च घनाङ्गुलश्च जगच्छेणिः। लोकप्रतरश्च लोकः अष्टौ प्रमाणानि मन्तव्यानि॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org