________________
सप्तमोऽध्यायः।
कृतमौनव्रतेन विरतपराङ्मुखपिच्छेन जघन्यतः पञ्च पञ्चोपवासा उत्कृष्टतः षण्मासोपवासाः कर्तव्याः। उभयमप्या द्वादशवर्षादिति । दर्पा पुनरनन्तरोक्तान् दोषानाचरतः परगणोपस्थानं नाम प्रायश्चित्तं भवति । स सापराधः स्वगणाचार्येण परगणाचार्य प्रति प्रहेतव्यः । सोप्याचार्यस्तस्यालोचनमाकर्ण्य प्रायश्चित्तमदत्वा आचार्यान्तरं प्रस्थापयति सप्तमं यावत् । पश्चिमश्च प्रथमालोचिताचार्य प्रति प्रस्थापयति । स एव पूर्वः पूर्वोक्तप्रायश्चित्तेनैनमाचारयति । एवं परिहारस्य प्रथमभेदोऽनुपस्थापनाख्यो द्विविधः। द्वितीयस्वयं पारञ्चिकाख्यः। स एष तीर्थकरगणधरगणिप्रवचनसंघाद्यासादनकारकस्य नरेन्द्रविरुद्धाचरितस्य राजानभिमतोऽमात्यादीनां दत्तदीक्षस्य नृपकुलवनितासेवितस्यैवमादिभिरन्यैश्च दोषैर्धर्मदूषकस्य स्यात् । तद्यथा, चातुर्वयॆश्रमणसंघः संभूय तमालय एष महापापी पातकी समयबाह्यो न वन्द्य इति घोषयित्वा दत्त्वानुपस्थानं प्रायश्चित्तं देशानिर्घाटयति । सोपि स्वधर्मविरहितक्षेत्रे गणिदत्तं प्रायश्चित्तमाचरतीति ॥ परिहारः ।
अथ श्रद्धानाख्यं प्रायश्चित्तविकल्पमाहगत्वा स्थितस्य मिथ्यात्वं यद्दीक्षाग्राहणं पुनः । तच्छ्रद्धानमिति ख्यातमुपस्थापनमित्यपि ॥ ५७॥ ख्यातं कथितम् । किं तत् ? तत् प्रायश्चित्तम् । किंलक्षणम् ? श्रद्धानमिति श्रद्धानाख्यम् । न केवलम्, उपस्थापनमित्यपि उपस्थापनाख्यं च । यत्किम् ? यत्क्रियते सूरिणा । किं तत् ? दीक्षाग्राहणं प्रव्रज्याप्राप. णम् । कथम् ? पुनर्भूयः । कस्य ? स्थितस्य तिष्ठतः । किं कृत्वा ? गत्वा प्राप्य । किं तत् ? मिथ्यात्वं सौगतादिमताभिनिवेशम् । अन्यस्स्वाह-महावतानां मूलच्छेदनं कृत्वा पुनर्दीक्षाप्रापणमुपस्थापनेति । श्रद्धानम् । प्रायश्चित्तविकल्पदशकस्य यथापराधं प्रयोगविधिमाहसैषा दशतयी शुद्धिर्बलकालाद्यपेक्षया । यथादोषं प्रयोक्तव्या चिकित्सेव शिवार्थिभिः ॥५८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org