SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृते जिर्णवयणमयाणंतो मुक्कधुरो णाणचरणपरिभट्ठो । करणालसो भवित्ता सेवदि ओसण्णसेवाओ ॥ ५०६ कुशीलो यः क्रोधादिकषायकलुषितात्मा व्रतगुणशीलैः परिहीनः संघस्यानयकारी च स्यात् । उक्तं च कोहो दिकलुसिया वयगुणसीलेहिं चावि परिहीणो । संघस्स अणयकारी कुसीलसमणोत्ति णायव्वो ॥ ( मूलम् ) अथ परिहारस्य लक्षणं विकल्पांश्चाह --- विधिवद्दूराच्यजनं परिहारो निजगणानुपस्थानम् । सपरगणोपस्थानं पारश्चिकमित्ययं त्रिविधः ।। ५६ ।। भवति । कोसौ ? परिहारः परिहारो नाम प्रायश्चित्तम् । किंरूपम् ? त्यजनं परिवर्जनम् । कस्मात् ? दूरादू दूरतः । किंवत् ? विधिवत् शास्त्रोक्तविधानेन दिवसादिविभागेनैव । उक्तं च-दिवसादिविभागेनैव दूरतः परिवर्जनं परिहार इति । अयं च परिहारस्त्रिविधस्त्रिप्रकारो भवतेि । कथम् ? इति एवम् । भवति तावत्परिहारः । किंभेदः ? निजगणानुपस्थानं स्वसंघान्निर्वासनम् । किंविशिष्टम् ? सपरगणोपस्थानम् । सहपरगणोपस्थानेन परसंघानुसरणेन वर्तते इति सपरगणोप्रस्थानम् । तथा पारञ्चिकं च । इतो विस्तरः- प्रमदादन्यमुनिसंबन्धिनमृषिं छात्रं वा परपाषण्डिप्रतिबद्धचेतनाचेतनद्रव्यं वा परस्त्रियं वा स्तेनयतो मुनीन् प्रहरतो वा अन्यदप्येवमादि विरुद्धाचरितमाचरतो नवदशपूर्वधरस्यादित्रिक संहननस्य जितपरीषहस्य हृढकर्मणो धीरस्य भवभीतस्य निजगणानुपस्थानं नाम प्रायश्चित्तं भवति । तेन ऋष्याश्रमाद् द्वात्रिंशद्दण्डान्तर विहित विहारेण बालसुनीनपि वन्दमानेन प्रतिवन्दनाविरहितेन गुरुणा समालोचयता शेषजनेषु 1 १ - जिनवचनमजानन् मुक्तधुरो ज्ञानचरणपरिभ्रष्टः । करणालसो भूत्वा सेवते अवसन्नसेवः ॥ २ - क्रोधादिकलुषितात्मा व्रतगुणशीलैर्वापि परिहीनः । संघस्यानयकारी कुशीलश्रमण इति ज्ञातव्यः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy