________________
सप्तमोऽध्यायः।
५२५
संवेगोल्लसिताः सदध्यवसिताः सर्वातिचारोज्झिताः, खाध्यायात् परवाघऽशङ्कितधियः स्युः शासनोद्भासिनः ८९
स्युभवेयुः।के ? मुमुक्षवः । कस्मात् ? स्वाध्यायात् । कीदृशाः स्युः ? प्रज्ञोत्कर्षजुषः । प्रज्ञाया ऊहापोहात्मिकाया बुद्धरुत्कर्षमतिशयं जुषन्ते प्रीत्या सेवन्ते। तथा श्रुतस्थितिपुषः। श्रुतस्य परमागमस्य स्थितिमवि. च्छेदं पुष्णन्ति पोषयन्ति । तथा चेतोक्षसंज्ञामुषः । चेतश्चाक्षाणि च संज्ञाश्चाहारभयमैथुनपरिग्रहाभिलाषाः ता मुष्णन्ति स्तेनयन्ति प्रतिबध्नन्ति तथा संदेहच्छिदुराः संशयं छेत्तारः । तथा कषायभिदुराः क्रोधादीन भेत्तारः । तथा प्रोद्यत्तपोमेदुराः प्रोद्यता अहरहर्वर्धमानेन तपसा पुष्टाः। तथा संवेगोल्लसिताः । संवेगः संसारभीरता उल्लसिता उद्गता येषां संवेगेन वोल्लसिता उत्कृष्टशोभिताः । तथा सध्यवसिताः। सत् प्रशस्तमध्यवसितमध्यवसायो येषां ते प्रशस्तपरिणामा इत्यर्थः । अथवा सद् उत्पादव्ययध्रौव्ययुक्तं वस्तु अध्यवसितं निश्चितं यैस्ते । तथा सर्वातिचारोज्झिताः सर्वैर्दर्शनादिगोचरैरतीचारैर्मलैरुज्झितास्त्यक्ताः । तथा परवाद्यशङ्कितधियः परवादिभ्यः सौगतादिभ्योऽशङ्किता अत्रस्ता धीर्बुद्धिर्येषाम् । तथा शासनोद्भासिनो निजमतप्रभावकाः । स्तुतिलक्षणस्वाध्यायफलमाहशुद्धज्ञानघनार्हदद्भुतगुणग्रामग्रहव्यग्रधी,स्तद्वयक्त्युद्धरनूतनोक्तिमधुरस्तोत्रस्फुटोद्गारगीः। मूर्ति प्रश्रयनिर्मितामिव दधत्तत्किचिदुन्मुद्रय,त्यात्मस्थाम कृती यतोरिजयिनां प्राप्नोति रेखांधुरि ॥१०॥ कृती विद्वान् तत्किचिदनिर्वचनीयमात्मस्थाम स्ववीर्यमुन्मुद्रयति उन्मीलयति । कीदृशः सन् ? शुद्धेत्यादि । शुद्धं निर्मलम् । तच्च तज्ज्ञानं च शुद्धज्ञानम्। तेन घनो निर्भरभृतोऽर्हन् जिनेन्द्रः। तस्याद्भुता विस्मयनीया गुणाः । तेषां ग्रामः संघातः। तत्र ग्रहोभिनिवेशः । तेन व्यग्रा व्यासङ्गिनी धीर्बुद्धिर्यस्य स एवम् । तथा तदित्यादि । तस्य शुद्धज्ञानघनार्हदद्भुतगुण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org