________________
सप्तमोऽध्यायः।
५०३
अन्यस्त्वाह-व्युत्सर्गो नियतकालः कायवाङ्मनसा त्याग इति । अथ तपःसंशं प्रायश्चित्तं लक्षयतिकृतापराधः श्रमणः सत्त्वादिगुणभूषणः। यत्करोत्युपवासादिविधि तत्क्षालनं तपः ॥५२॥ भवति । किं तत् ? क्षालनं प्रायश्चित्तम् । क्षाल्यते शोध्यते मलिनं चित्तमनेनेति क्षालनम् । किमाख्यम् ? तपस्तपःसंज्ञम् । यत्किम् ? यत्करोति विधत्ते । कोसौ ? श्रमणस्तपस्वी । किंविशिष्टः ? सत्त्वादि. गुणभूषणः सत्वधैर्यादिगुणालंकरणः । किंविशिष्टः सन् ? कृतापराध: कृतोपराधो विहिताचरणातिक्रमो येन स एवम् । कं करोति ? उपवासादिविधिम् । उपवास आदिर्यस्यैकस्थानाचाम्लनिर्विकृत्यादेः सोयमुपवासादिः । स चासौ विधिश्च । विधीयते इति विधिः प्रायश्चित्तशास्त्रोक्तमाचरणं बाह्यं तप इत्यर्थः । आलोचनादिप्रायश्चित्तविधेर्विषयमाहभयत्वराशक्त्यबोध विस्मृतिव्यसनादिजे। महाव्रतातिचारेमुं पोढा शुद्धिविधि चरेत् ॥ ५३॥
चरेदनुतिष्ठेत्तपस्वी । कम् ? अमुमालोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतपोलक्षणं शुद्धिविधि शास्त्रोक्तं प्रायश्चित्तम् । कतिधा ? षोढा षट्प्रकारम् । क? महाव्रतातीचारे। किंविशिष्टे ? भयत्वराशक्त्यबोध. विस्मृतिव्यसनादिजे । भयत्वरा भीत्वा पलायनम् । अशक्तिरसाममर्थ्यम् । अबोधोऽज्ञानम् । विस्मृतिर्विस्मरणम् । व्यसनं तुरुष्काघातकः । आदिशब्देन रोगाभिभवादिः । भयत्वरा चाशक्तिश्चाबोधश्च विस्मृतिश्च व्यसनादिश्च । तेभ्यो जाते।
किंच, आचार्यमपृष्ट्वातापनादिकरणे पुस्तकपिच्छादिपरोपकरणग्रहणे परपरोक्षे प्रमादत आचार्यादिवचनाकरणे संघनाथमपृष्ट्वा संघनाथप्रयोजनेन गत्वागमने परसंघादपृष्ट्वा स्वसंघगमने देशकालनियमेनावश्यकर्तव्यव्रतविशे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org