________________
५०२
अनगारधर्मामृतेभङ्गयन्तरेण पुनर्विवेकं लक्षयतिविस्मृत्य ग्रहणेऽप्रासोहिणे वाऽपरस्य वा । प्रत्याख्यातस्य संस्मृत्य विवेको वा विसर्जनम् ॥५०॥ वा अथवा विवेको भण्यते । किं तत् ? विसर्जनं त्यजनम् । कस्य ? अप्रासोः सचित्तस्य । क सति ? ग्रहणे उपादाने ग्राहणे वा। किं कृत्वा ? विस्मृत्य अन्तर्धाय । वा अथवा विवेको भण्यते । किं तत् ? विसर्जनम् । कस्य ? अपरस्य प्रासुकस्याचित्तस्य । किंविशिष्टस्य ? प्रत्याख्यातस्य निराकृतस्य । किं कृत्वा ? संस्मृत्त्य सम्यक् प्रतिग्रहपूर्वक स्मृत्वा । उक्तं च
"शक्त्यनिगृहनेन प्रयत्नेन परिहरतः कुतश्चित्कारणादप्रासुकग्रहणग्राहणयोः प्रासुकस्यापि प्रत्याख्यातस्य विस्मरणात् प्रतिग्रहे च स्मृत्त्वा पुनस्तदुत्सर्जनं विवेक इति।"अन्यस्त्वाह-"शुद्धस्याप्यशुद्धत्वेनैव यत्र संदेह विषर्ययावऽशुद्धस्य शुद्धत्वेन निश्चयो वा यत्र प्रत्याख्यातं सद्यद्भाजने मुखे वा प्राप्तं यत्र वा गृहीते कषायादिकमुत्पद्यते तस्य सर्वस्य विवेकस्त्याग इति" । विवेकः । अथ व्युत्सर्गस्वरूपमाहस व्युत्सों मलोत्सर्गाद्यतीचारेऽवलम्ब्य सत् । ध्यानमन्तर्मुहूर्तादि कायोत्सर्गेण या स्थितिः ॥५१॥ भवति कोसौ ? स व्युत्सर्गः। या किम् ? या स्थितिरुद्धीभावः । केन? कायोत्सर्गेण देहममत्वत्यागेन । कियत् ? अन्तर्मुहूर्तादि अन्त. मुहूर्त आदिर्यत्र कालावस्थाने तदन्तर्मुहूर्तादि । किं कृत्वा ? अवलम्ब्य आश्रित्य । किं तत् ? ध्यानम्। किंविशिष्टं सत् ? प्रशस्तम् । क सति ? मलोत्सर्गाद्यतीचारे । मलोत्सर्ग आदिर्यस्य दुःस्वमादेरसौ मलोत्सर्गादिः तस्यातिचारस्तस्मिन् । उक्तं च
दुःस्वमदुश्चिन्तनमलोत्सर्जनसूत्रातीचारनदीमहाटवीतरणादिभिरन्यैश्चाप्यतीचारे सति ध्यानमवलम्ब्य कायमुत्सृज्य अन्तर्मुहूर्तदिवसपक्षमासादिकालावसानं व्युत्सर्ग इत्युच्यते इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org