________________
सप्तमोऽध्यायः।
५०१
तुल्य यो"रित्यभिधानात् । तेन मिथ्या मे दुष्कृतमिति प्रायैर्मिथ्या मे दुष्कतमिति सदृशैरित्यादिशब्देन प्रकारार्थेन व्याख्यातं बोद्धव्यम् । उक्तं च
"आस्थितानां योगानां धर्मकथादिव्याक्षेपहेतुसन्निधानेन विस्मरणे सति पुनरनुष्ठायकस्य संवेगनिर्वेदपरस्य गुरुविरहितस्याल्पापराधस्य पुनर्न करोमि मिथ्या मे दुष्कृतमित्येवमादिभिर्दोषानिवर्तनं प्रतिक्रमणमिति"। अन्य. स्वाह-दोषमुच्चार्योच्चार्य मिथ्या मेस्तु दुष्कृतमित्येवमाद्यभिव्यक्तः प्रती. कारः प्रतिक्रमणम् । एतदाचार्यानुज्ञातेन शिष्येणैव कर्तव्यम्" इति । प्रतिक्रमणम्। अथ तदुभयं लक्षयतिदुःस्वमादिकृतं दोषं निराकर्तुं क्रियेत यत् । आलोचनप्रतिक्रान्तिद्वयं तदुभयं तु तत् ॥ ४८ ॥ भवति । किं तत् ? तदुभयमालोचनप्रतिक्रमणयोर्द्वितयम् । तुर्विशेषे । यत्किम् ? यक्रियेत मुमुक्षुणा । किं तत् ? आलोचनप्रतिक्रान्तिदयम्। किं कर्तुम् ? निराकर्तु निराकरिष्यामीत्यध्यवसायः । कम् ? दोषम्। किंविशिष्टम् ? दुःस्वप्नादिकृतं दुष्टस्वमसंक्लेशादिजनितम् । किं च, आलोचनं प्रतिक्रमणपूर्व गुरुणाभ्यनुज्ञातं शिष्येणैव कर्तव्यम् आलो. चनां प्रदाय प्रतिक्रमणमाचार्येणैव कर्तव्यं तदुभयमिति विशेषः । तदुभयम् अथ विवेकलक्षणमाहसंसक्तेनादिके दोषानिवर्तयितुमप्रभोः। यत्तद्विभजनं साधोः स विवेकः सतां मतः ॥ ४९ ॥
मतः संमतः । कोसौ ? स विवेकः। केषाम् ? सतां साधूनाम् । यस्किम् ? यत्तद्विभजनं संसक्तानपानोपकरणादेर्वियोजनम् । कस्य ? साधोः संयतस्य । किंविशिष्टस्य ? अप्रभोरसमर्थस्य । किं कर्तुम् ? निवर्तयितुं निराकर्तुम् । कान् ? दोषान् । क ? अन्नादिके। किंविशिष्ट ? संसक्त स्वसंबद्धे संमूर्छिते वा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org