________________
अनगारधर्मामृतेयः पिबत्यौषधं मोहात् सामे तीव्ररुजि ज्वरे । प्रसुप्तं कृष्णसर्प स करानेण परामृशेत् ॥ तथा नो विजयते न दोषविजयी भवति तपस्वी । किं कुर्वन् ? अकुर्वन् । कम् ? विधि विहिताचरणम् । किं कृत्वा ? अपि कृत्त्वा विधायापि । किं तत् ? आलोचनम् । किंवत् ? मन्त्रवद् यथा कर्मणामारंभोपायः पुरुषद्रव्यसंपद्देशकालविभागो विनिपातप्रतीकारः कार्यसिद्धिश्चेति पञ्चाङ्गं गुप्तभाषणं कृत्वापि राजा विहिताचरणमकुर्वाणो नो विजयते न शत्रुविजयी भवतीत्यर्थः।
सद्गुरुप्रायश्चित्तोचितचित्तस्य दीत्यतिशयं दृष्टान्तेनाचष्टे.. यथादोषं यथाम्नायं दत्तं सद्गुरुणा वहन् ।
रहस्यमन्तर्भात्युचैः शुद्धादर्श इवाननम् ॥ ४६॥
भाति दीप्यते । कोसौ ? तपस्वी । कथम् ? उच्चैरतिशयेन । किं कुर्वन् ? वहन धारयन् । किं तत् ? रहस्यं प्रायश्चित्तम् ? क ? अन्तं. रध्यात्मम् । किंविशिष्टम् ? दत्तं वितीर्णम् । केन ? सहुरुणा सम्यगाचा. येण । कथम् ? यथादोषं यो यो दोषोपराधस्तमुद्दिश्य । कथम् ? यथानायमागमस्थानतिक्रमेण । क इव? शुद्धादर्श इव । यथा निर्मलदर्पणोऽ. न्तर्मध्ये आननं मुखं वहन्नुच्चै ति तथा प्रकृतोपीत्यर्थः ॥ आलोचनम् ।
अथ प्रतिक्रमणमाहमिथ्या मे दुष्कृतमिति प्रायोऽपायैर्निराकृतिः। कृतस्य संवेगवता प्रतिक्रमणमागसः ॥४७॥ भवति । किं तत् ? प्रतिक्रमणम् । या किम् ? या निराकृतिनिराकरणं क्रियते । कस्य ? आगसोऽपराधस्य । किंविशिष्टस्य ? कृतस्य आचरितस्य । केन क्रियते ? संवेगवता संसारभीरुतायुक्तेन । उपलक्षणानिर्वेदयुक्तेन च । कैनिराकृतिः क्रियते ? मिथ्या मे दुष्कृतमिति प्रायोऽपायैः मिथ्या निष्फलं मम दुरनिष्ठितमस्तु शान्तं पापं मे भवतु त्याधुपक्रमैः । प्रायशब्दोत्र सहशार्थम् । “प्रायो वयस्यनशने मृतौ बाहुल्य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org