________________
सप्तमोऽध्यायः।
४९९
छन्नाख्य आलोचनादोषः स्यात् । यः किम् ? यस्तद्विधिः प्रायश्चित्तकरणम् । किं कृत्वा ? पृष्ठा गुरुम् । कथम् ? इति । किमिति ? कीहक् कीदृशी चिकित्सा प्रतीकारः स्यात् । क ? ईदृग्दोषे। ईदृशे दोषे सति, कीदृशं प्रायश्चित्तं क्रियते इति स्वदोषोद्देशेन गुरुं पृष्ट्वा तदुक्तं प्रायश्चित्तं कुर्वतश्छन्नं नामालोचनादोषः स्यादिस्यर्थः । (७) तथा शब्दाकुलं शब्दाकुलाख्य आलोचनादोषः स्यात् । किम् ? स्वागःशब्दनं निजापराधकथनम् । कस्याग्रे ? गुरोः । क ? शब्दसंकुले पक्षाधतीचारशुद्धिकालेषु बहुजनशब्दबहुले स्थाने । (८) तथा बहुजनं बहुजनाख्यो दोष आलोचनागतः स्यात् । या किम् ? या सूरिदत्तान्यक्षुण्णतत्कृतिः सूरिणा स्वगुरुणा दत्तं प्रथमं वितीर्ण पश्चादन्यैः प्रायश्चित्तकुशलैः क्षुण्णं चर्वितं तत्प्रायश्चित्तम् । तस्य कृतिरनुष्ठानम् । (९) तथा अव्यक्तमव्यक्ताख्योसौ आलोचनदोषः स्यात् । यः किम् ? यश्छेदग्रहः प्रायश्चित्तग्रहणम् । कस्मात् ? बालाद ज्ञानेन संयमेन वा हीनात् । (१०) तथा तत्सेवितं तत्सेविताख्योसावालोचनादोषः स्यात् । तेन समेन प्रायश्चित्तप्रदायिना पार्श्वस्थेन सेव्यमानत्वात् । यः किम् ? यश्छेदग्रहः । कस्मात् ? समात् आत्मसदृशात् पार्श्वस्थात् प्रायश्चित्तग्रहणमित्यर्थः । तुर्विशेषे ।
आलोचनां विना महदपि तपो न संवरसहभाविनी निर्जरां करोति । कृतायामपि चालोचनायां विहितमनाचरन्न दोषविजयी स्यात् । अतः सर्वदा लोच्यं गुरूक्तं च तदुचितमाचर्यमिति शिक्षणार्थमाहसामौषधवन्महदपि न तपोऽनालोचनं गुणाय भवेत् । मन्त्रवदालोचनमपि कृत्वा नो विजयते विधिमकुर्वन् ॥४५॥
न भवेत् । किं तत् ? तपः। किंविशिष्टम् ? महदपि पक्षोपवासादिकमपि । कस्मै ? गुणाय उपकाराय । संवरसहभाविनिर्जरार्थमित्यर्थः । किंविशिष्टं तपः ? अनालोचनं यथोक्तलक्षणालोचनारहितम् । किंवत् ? समौषधवत् सामदोषप्रयुक्तमौषधं महदपि गुणाय आरोग्याय यथा न भवति । किंविशिष्टम् ? अनालोचनमनालोच्य प्रयुक्तम् । अथाह,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org