________________
४९८ अनगारधर्मामृते
mmmmmmmmmmm गिकां विशेषालोचनां, दीक्षाग्रहणात्प्रभृति यो यत्र यदा यथाऽपराधः कृतस्तस्य तत्र तदा तथा प्रकाशनात् । न केवलं मूलाप्राप्तः पदविभागिकामालोचनां प्रकृत्त्य तपश्चरेद् यावता मूलाप्राप्तः औधी सामान्यालोचना प्रकृत्य तपश्चरेन्मुमुक्षुरिति संबन्धः । उक्तं च
ओघेन पदविभागेन द्वेधालोचना समुद्दिष्टा । मूलं प्राप्तस्यौघी पादविभागी ततोन्यस्य ॥ स्मरणपथमनुसरन्ति प्रायो नागांसि मे विपुण्यस्य । सर्व छेदः समजनि ममेति वालोचयेदोघीम् ॥ प्रव्रज्यादिसमस्तं क्रमेण यद्यत्र येन भावेन ।
सेवितमालोचयतः पादविभागी तथा तत्तत् ॥ किं कुर्वन् ? उज्झन् त्यजन् । कान् ? मलानाकम्पिताद्यालोचनादोषान् । कति ? दश । कथम् ? इति एवम् । तानेव लक्षणतः प्रस्तौति । (१) भवति तावदाकम्पितमाकम्पितनामालोचनादोषः । किम् ? आवर्जनमुपकरणदानादिनात्मनोऽल्पप्रायश्चित्तदानार्थमनुकूलनम् । कस्य ? गुरोराचार्यस्य । कस्मात् ? गुरुच्छेदभयान्महाप्रायश्चित्तशङ्कातः । (२) तथा भवत्यनुमापितमनुमापितं नामालोचनादोषः, गुरुः प्रार्थितः स्वल्पप्रायश्चित्तदानेन ममानुग्रहं करिष्यतीत्यनुमानेन ज्ञात्वा स्वापराधप्रकाशनात् । किंरूपम् ? स्वाशक्त्याख्या आत्मनोऽसामर्थ्यप्रकाशनं गुरोरने । क ? तत्र तपसि । कस्मात् ? तपशूरस्तवाद् धन्यास्ते ये वीरपुरुषाचरितमुस्कृष्टं तपः कुर्वन्तीति व्यावर्णनात् । (३) तथा यदृष्टं यद् दृष्टाख्य आलोचनादोषः स्यात् । या किम् ? या प्रथा प्रकाशना । कस्याग्रे ? गुरोः। कस्य ? दृषणस्य। किंविशिष्टस्य ? अन्यदृष्टस्यैव परादृष्टं स्वदोष छाद. यित्वेति भावः । (४) तथा बादरं बादराख्य आलोचनादोषः स्यात् । यत्किम् ? यत्प्रथा प्रकाशनं गुरोरने । कस्य ? दोषस्य । किंविशिष्टस्य ? बादरस्यैव स्थूलस्यैव दूषणस्य प्रकाशनम् । सूक्ष्मस्य तु प्रच्छादनमित्यर्थः । ( ५ ) तथा सूक्ष्मं सूक्ष्माख्य आलोचनादोपः स्यात् । यत्किम् ? यत्प्रथा गुरोरने दूषणस्य । किंविशिष्टस्य ? सूक्ष्मस्य केवलम् । सूक्ष्मस्यैव प्रकाशनं स्थूलस्य प्रच्छादनमित्यर्थः । ( ६ ) तथा छन्न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org