________________
सप्तमोऽध्यायः।
४९७
सुप्रशस्तं भवेत्स्थानमन्यदप्येवमादिकम् । सूरिरालोचनां तत्र प्रतीच्छत्यस्य शुद्धये ॥ सद्देश इत्युपलक्षणात्सुलग्नेपि । उक्तं च
आलोचणादिआ पुण होदि पसत्थेवि सुद्ध भावं सा। पुवढे अवरह्ने सोम्मतिहीरिक्खवेलाए॥ क्क काले ? प्राहे पूर्वाह्ने । न केवलम्, अपराह्ने वा । वेत्यध्याहारः । शोध्यं च सुनिरूपितप्रायश्चित्तदानेन निराकार्यम् । किं तत् ? तत् स्वागः । केन ? तेन सूरिणा।
एकदेशविराधितमार्गेणाकम्पितादिदशदोषवर्जा पदविभागिकामालोचना कृत्वा तपोनुष्ठेयमस्मर्यमाणबहुदोषेण च्छिन्नव्रतेन वा पुनरौघीमिति श्लोकपञ्चकेनाचष्टे
आकम्पितं गुरुच्छेदभयादावर्जनं गुरोः । तपाशूरस्तवात्तत्र स्वाऽशक्त्याख्यानुमापितम् ॥४०॥ यद् दृष्टं दूषणयान्यदृष्टस्यैव प्रथा गुरोः । बादरं बादरस्यैव सूक्ष्मं सूक्ष्मस्य केवलम् ॥ ४१ ॥ छन्नं कीदृक्चिकित्से दृग्दोषे पृष्ट्वेति तद्विधिः। शब्दाकुलं गुरोः स्वागः शब्दनं शब्दसंकुले ॥ ४२ ॥ दोषो बहुजनं सूरिदत्तान्यक्षुण्णतत्कृतिः। बालाच्छेदग्रहोऽव्यक्तं समात्तत्सेवितं त्वसौ॥४३॥ दशेत्युज्झन् मलान्मूलाप्राप्तः पदविभागिकाम् । प्रकृत्यालोचनांमूलप्राप्तश्चौघीं तपश्चरेत् ॥४४॥ (पञ्चकम्)
चरेदनुतिष्ठेन्मुमुक्षुः । किं तत् ? तपः । किंविशिष्ट ? मूलाप्राप्तो मूलं सर्वोच्छेदमनापन्नः । एकदेशविराधितमार्ग इत्यर्थः । किं कृत्वा ? प्रकृत्य प्रविधाय । काम् ? आलोचनाम् । किंविशिष्टाम् ? पदविभा.
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org