SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ ४९६ अनगारधर्मामृते सालोचनाद्यस्तद्भेदः प्रश्रयाद्धर्मसूरये। यद्दशाकम्पिताधूनं स्वप्रमादनिवेदनम् ॥ ३८ ॥ भवति । कासौ ? सा आलोचना । किं भवति ? तद्भेदस्तस्य प्रायश्चित्तस्य विकल्पः । किंविशिष्टः ? आद्यः प्रथमः। यस्किम् ? यत् क्रियते तपस्विना । किं तत् ? स्वप्रमादनिवेदनं निजप्रमादं ज्ञापनम् । कस्सै ? धर्मसूरये धर्माचार्याय । कस्मात् ? प्रश्रयाद्विनयात् । किंविशिष्टम् ? दशाकम्पिताधूनं दशभिराकम्पितादिभिर्दोषैः परिहीनम् । उक्तं च मस्तकविन्यस्तकरः कृतिकर्म विधाय शुद्धचेतस्कः। आलोचयति सुविहितः सर्वान् दोषांस्त्यजन् रहसि ॥ किं च,-पुरुषस्यैकान्ते, व्याश्रयं स्त्रियाः प्रकाशे ध्याश्रयमालोचनं प्रतिपत्तव्यम् । आलोचनाया देशकालविधान निर्णयार्थमाहप्राङ्गेऽपराह्ने सद्देशे बालवत् साधुनाखिलम् । स्वागस्त्रिराजेवाद्वाच्यं सूरेः शोभ्यं च तेन तत् ॥ ३९ ॥ वाच्यं वक्तव्यम् । किं तत् ? स्वागः स्वयंकृतापराधः पापं वा । केन ? साधुना सिद्विसाधनोद्यतेन । किंविशिष्टम् ? अखिलम् । कथम् ? त्रिस्त्रीन्वारान् । स्मृत्त्वेत्यध्याहारः। उक्तं च इयमुजुमावमुपगदो संवेदो सेसरिं तु तिक्खंतो। लेस्लाहि विसुझंतो उवेदि सल्लं समुद्धरिदुं ॥ कस्माद्वाच्यम् ? आर्जवादकुटिलभावात् । बालवत् शिशुना तुल्यम् । उक्तं च जह बालो जप्पंतो कजमकजं च उजुर्ग भणदि । तह आलोचेदव्वं मायामोसं च मोत्तूणं ॥ कस्याने वाच्यम् ? सूरेधर्माचार्यस्य । क ? सद्देशे प्रशस्तस्थाने । पथाह अर्हत्सिद्धसमुद्राब्जसरःक्षीरफलाकुलम् । तोरणोद्यानसमाहियक्षवेश्मबृहद्गृहम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy