________________
सप्तमोऽध्यायः ।
४९५
न केवलं, नैःशल्यं शल्यस्यान्तःस्खलतोऽतीचारस्यापगमम् । न केवलम्, अनवस्थाव्यपोहनमऽनवस्थाया उपर्युपर्यपराधकरणस्य व्यपोहनं निराकरणम् । न केवलं, चतुर्धाराधनं सम्यग्दर्शनज्ञानचारित्रतपसामुद्योतनादिकम् । न केवलं दाढ्यं बलापादनम् । कस्य ? संयमस्य सम्यग्दर्शनादियोगपद्यप्रवृत्तैकाथ्यस्य । एवमादिकमन्यदपि साधर्मिकप्रत्ययादिकम् । प्रायश्चित्तशब्दस्य निर्वचनार्थमाहप्रायो लोकस्तस्य चित्तं मनस्तच्छुद्धिकृत्क्रिया। प्राये तपसि वा चित्तं निश्चयस्तनिरुच्यते ॥३७॥ निरुच्यतेऽर्थानुगतं कथ्यते नैरुक्तैः । किं तत् ? तत् प्रायश्चित्तम् । किंरूपम् ? क्रिया कर्म । किंविशिष्टम् ? तच्छुद्धिकृत् स्वयूथ्यवर्गमन:प्रसत्तिकारी । कथम् ? उच्यते । कोसौ ? प्रायः। किमुच्यते ? लोकः, प्रकरणात् स्वयूथ्यवर्गः । उच्यते च । किं तत् ? चित्तम् । पुनः कस्य ? तस्य प्रायस्य । वा अथवा उच्यते प्रायश्चित्तम्। किं तत् ? चित्तम् । कोर्थः ? निश्चयोऽनुष्ठेयतया श्रद्धानम् । क ? प्राये । कोर्थः ? तपसि यथास्त्रमुपवासादौ । यथाह
प्राय इत्युच्यते लोकस्तस्य चित्तं मनो भवेत् । एतच्छुद्धिकरं कर्म प्रायश्चित्तं प्रचक्षते ॥ यथा वाप्रायो नाम तपः प्रोक्तं चित्तं निश्चयनं युतम् । तपो निश्चयसंयोगात् प्रायश्चित्तं निगद्यते ॥ यदि वा प्रायस्य साधुलोकस्य चित्तं यस्मिन्कर्मणि तत् प्रायश्चित्तम् । प्रायस्यापराधस्य चित्तं शुद्धिर्वा प्रायश्चित्तमित्यपि ग्राह्यम् ।
प्रायश्चित्तस्यालोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतपश्छेदमूलपरिहारश्रद्धानलक्षणेषु दशसु भेदेषु मध्ये प्रथममालोचनाख्यं तद्भेदं निर्दिशति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org