________________
४९४
अनगारधर्मामृते
वश्यकादेरकरणेऽनाचरणे । न केवलं, वाऽवजेने च वज्यस्याऽकर्तव्यस्य हिंसादेरवर्जनेऽत्यागे आवर्जने वाऽनुष्ठाने । भवति । किं तत् ? प्रायः श्चित्तम् । क ? अत्राभ्यन्तरे तपसि । किंरूपम् ? तच्छुद्धिः । तस्यातीचारस्य शुद्धिः शोधनमपगमस्तच्छुद्धिः । शुद्ध्यत्यनया वा शुद्धिः । तस्य शुद्धिस्तच्छुद्धिः । तच्च दशात्म दशरूपं स्यात् । उक्तं च
पायच्छित्तं ति तओ जेण विसुज्झदि हु पुव्वकयपावं ।
पायच्छित्तं पत्तो ति तेण मुत्तं दसविहं तु॥ पायच्छित्तं पत्तोति प्रायश्चित्तमपराधं प्राप्तः सन् । परे स्वेवमाहुः
अकुर्वन् विहितं कर्म निन्दितं च समाचरन् । प्रसजश्चेन्द्रियार्थेषु प्रायश्चित्तीयते नरः॥ किमर्थ प्रायश्चित्तमनुष्ठीयते इति श्लोकद्वयमाहप्रमाददोषविच्छेदममर्यादाविवर्जनम् । भावप्रसादं निःशल्यमनवस्थाव्यपोहनम् ॥ ३५॥ चतुद्धाराधनं दाढ्यं संयमस्यैवमादिकम् । सिसाधयिषताऽऽचर्य प्रायश्चित्तं विपश्चिता॥३६॥ (युग्मम्)
आचर्यमनुष्ठेयम् । किं तत् ? प्रायश्चित्तम् । केन ? विपश्चिता दोषज्ञेन । किं चिकीर्षता ? सिसाधयिषता साधयितुमिच्छता। किं किम् ? प्रमाददोषविच्छेदम् । प्रमादाचारित्रेऽनवधानादुत्पन्नदोषोतीचारः प्रमाददोषः । तस्य विच्छेदो व्युपरमस्तम् । न केवलम्, अमर्यादाविवर्ज. नम् । अमर्यादा प्रतिज्ञातव्रतलङ्घनम् । तस्य विवर्जनं त्यजनम् । उक्तं च
महातपस्तडागस्य संभृतस्य गुणाम्भसा। मर्यादापालिबन्धेऽल्पावप्युपैक्षिष्ट मा क्षतिम् ॥ न केवलं, भावप्रसादं भावस्य संकेशपरिणामस्य प्रसादः प्रसत्तिस्तम् । १ प्रायश्चित्तमिति तपो येन विशुद्धयति खलु पूर्वकृतपापम् । प्रायश्चित्तं प्राप्त इति तेन मुक्तं दशविधं तु॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org