________________
सप्तमोऽध्यायः।
४९३
wwe
अभ्रावकाशशय्या निष्ठीवनवर्जनं न कण्डूया। तृणफलकशिलेलास्वावसेवन केशलोचं च ॥ स्वापवियोगो रात्रावस्नानमदन्तघर्षणं चैव । कायक्लेशतपोदः शीतोष्णातापनाप्रभृति ॥ तद्विवरणं यथा, साधारं सावष्टम्भम् । स्तम्भादिकमाश्रित्येत्यर्थः । सविचारं ससंक्रमम् । देशाद्देशान्तरं गत्वेत्यर्थः । ससंनिरोधं निश्चलम् । विसृष्टाङ्गं सकायोत्सर्गम् । गृहस्थित्या गृङ्गस्योर्ध्वगमनमिव बाहू प्रसार्येत्यर्थः । समयुतं स्फिपिण्डसमकरणेनासनम् । गोदोहिका गोदोहे आसनमिवासनम् । उत्कुटिका ऊवं संकुटितमासनम् । मकरमुखं मकरस्य मुखमिव पादौ कृत्वासनम् । हस्तिहस्तो हस्तिहस्तप्रसारणमिवैकं पादं प्रसार्यासनम् । हस्तं प्रसार्येत्यपरे । गोशय्या गवासनमिव । वीरासनं जो विप्रकृष्ट देशे कृत्त्वासनम् । लगडशय्या संकुचितगात्रस्य शयनम् । अवाग् नीचमस्तकम् । अभावकाशशय्या बहिर्निरावरणदेशे शयनम् ॥ एवं षड्विधं बहिरङ्गं तपो व्याख्याय तत्तावदेवाभ्यन्तरं व्याकर्तुमिदमाहबाह्यद्रव्यानपेक्षत्वात् स्वसंवेद्यत्वतः परैः । अनध्यासात्तपः प्रायश्चित्ताद्यभ्यन्तरं भवेत् ॥ ३३ ॥ भवेत् । किं तत् ? तपः। किंविशिष्टम् ? अभ्यन्तरमन्तरङ्ग मध्यमभिगतम् । किंभेदम् ? प्रायश्चित्तादि । कस्मात् ? बाह्यद्रव्यानपेक्षत्वादन्तःकरणव्यापारप्रधानत्वात् । न केवलं, स्वसंवेद्यत्वतः आत्मना संवे. द्यमानत्वात् अनधिष्ठीयमानत्वात् । कैः ? परैस्तैर्थिकान्तरैः। प्रायश्चित्तं लक्षयितुमाहयत्कृत्याकरणे वाऽवर्जने च रजोर्जितम् । सोतिचारोत्र तच्छुद्धिः प्रायश्चित्तं दशात्म तत् ॥ ३४ ॥
भवति । कोसौ ? सोतिचारः । यस्किम् ? यद्रजः पापम् । किंविशिष्टम् ? अर्जितमुपार्जितम् । कृत्याऽकरणे कृत्यस्यावश्यकरणीयस्या
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org