________________
४९२
अनगारधर्मामृते
खादित्यतिर्यग्गतादित्यादीनां तान्यूज़ुर्कादीनि । तानि च तानि अयनानि च प्रामान्तरगमनप्रत्यागमनानि ऊर्ध्वाकांद्ययनानि, तैः । न केवलं, शवादिशयनैर्मतकदण्डलगढेकपा दिशय्याभिः । शवो मृतक आदिर्येषां दण्डादीनां ते शवादयः । तदाकाराणि शयनानि शय्याः शवादिशयनानि, तैः । न केवलं, वीरासनाद्यासनैर्वीरासनमकरमुखासनोत्कुटिकासनादिभिः । वीरासनमादिर्येपा तानि वीरासनादीनि । तान्येवासनानि वीरासनाद्यासनानि, तैः । न केवलं, स्थानः कायोत्सनः । किंविशिष्टः ? एकपदाग्रगामिभिः । एकपदमग्रगामि पुरःसरं येषां समपादप्रसारितभुजादीनां तान्येकपदाग्रगामीणि, तैः । न केवलम्, अनिष्ठीवाग्रिमावग्रहैः । अनिष्ठीवो निष्ठीवनाऽकरणमग्रिमो मुख्यो येषामकण्डूयनादीनां तेऽनिष्ठीवाग्रिमाः। ते च तेऽवग्रहाश्च धर्मोपकारहेतवोऽभिप्रायास्तैः । न केवलं, योगैश्च । किंविशिष्टः ? आतपनादिभिः । आतपनमातापनं ग्रीष्मे गिरिशिखरेऽभिसूर्यमवस्थानम् । एवं वर्षासु वृक्षमूले, शीतकाले च चतुष्पथे । आतपनमादिर्येषां ते आतफ्नादयस्तैः । उक्तं च
ठाणसयणासणेहि विविहे हिमऽओग्गाहेहि बहुगेहि । अणुवीची परिताओ कायकिलेसो हवदि एसो॥ अपि चअनुसूर्य प्रतिसूर्य तिर्यसूर्य तथोर्ध्वसूर्य च । तद्भमकेणापि गतं प्रत्यागमनं पुनर्गत्वा ॥ साधारं सविचारं ससन्निरोधं तथा विसृष्टाङ्गम् । समपादमेकपादं गृहस्थित्यायतेः स्थानम् ॥ समपर्थङ्कनिषद्योऽसमयुतगोदोहिकास्तथोत्कुटिका । मकरमुखहस्तिहस्तौ गोशय्या चार्धपर्यङ्कः ॥ वीरासनदण्डाद्या यतोवंशय्या च लगडशय्या च । उत्तानमवाक्शयन शवशय्या चैकपाश्वेशय्या च ॥
१ स्थानशयनासनैर्विविधैरवगाहैबहुकैः ।
अनुवीचिपरितापः कायक्केशो भवति एषः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org