________________
सप्तमोऽध्यायः।
४९१
wwwwwwwwwwwww
अपि चहिंसाकषायशब्दादिवारकं ध्यानभावनापथ्यम् । निर्वेदहेतुबहुलं शयनासनमिष्यते यतिभिः ॥ तन्निवासगुणश्वकलहो रोलं झञ्झा व्यामोहः संकरो ममत्वं च। ध्यानाध्ययनविघातो नास्ति विविक्ते मुनेर्वसतः॥ रोलः शब्दबहुलता। झन्झा संक्लेशः । संकरोऽसंयतैः सह मिश्रणम् । ध्यानमेकस्मिन् प्रमेये निरुद्धा ज्ञानसंततिः । अध्ययनमनेकप्रमेये संचारी स्वाध्यायः । विविक्तशय्यासनम् ।
अथ कायक्लेशतपो लक्षयित्वा तत्प्रति नियुङ्क्ते-- ऊर्धाकांद्ययनैः शवादिशयनैर्वीरासनाद्यासनैः, स्थानरेकपदाग्रगामिभिरनिष्ठीवाग्रिमावग्रहैः।। योगैश्चातपनादिभिः प्रशमिना संतापनं यत्तनोः, कायक्लेशमिदं तपोऽयुपनतो सद्ध्यानसिद्ध्यै भजेत् ॥ ३२ ।।
भजेत् सेवेत मुमुक्षुः । किं तत् ? इदं तपः। किमाख्यम् ? कायक्लेशं कायक्लेशाख्यम् । कायः शरीरं क्लिश्यतेऽनेनेति । "हलः । २।३। १०२।" इति पुंसि संज्ञायां घन् । कस्यै भजेत् ? सद्ध्यानसिद्ध्यै प्रशस्तध्याननिष्पत्त्यर्थम् । कस्यां सत्याम् ? अर्युपनतौ अर्तेः पीडाया दुःखस्योपनतिः प्राप्तिस्तस्याम् । उक्तं च
अदुःखभावितं ज्ञानं क्षीयते दुःखसन्निधौ । तस्माद्यथाबलं दुःखैरात्मानं भावयेन्मुनिः ॥ यत्किम् ? यस्क्रियते । केन ? प्रशमिना तपस्विना । किं तत् ? संतापनं कदर्थनम् । कस्याः ? तनोः शरीरस्य । कैः ? ऊर्धार्काद्ययनैः शिरोगतादित्याभिमुखादित्यादिनामान्तरगमनप्रत्यागमैः । ऊर्ध्वमुपरि अर्क आदित्यो यत्र तदूर्वाक शरीरोपरिगतादित्यम् । अर्वार्कमादिर्येषामभिमु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org