________________
४९०
अनगारधर्मामृते
दि च । अथेति समुच्चये । क ? शून्यसद्मादिके विजनगृहगुहावृक्षमूलादिके । किं विशिष्टे ? विजन्तुविहिता बलाद्यविषये । विगता जन्तवः प्राणिनो यस्मात्तद्दिजन्तु प्रासुकम् । विहितमुद्गमादिदोषरहितम् । ते च पिण्डशुच्युक्ता यथास्वमत्र चिन्त्याः । अवलाद्यविषयः स्त्रीपशुनपुंसकगृहक्षुद्रजीवानामगोचरः । विजन्तु च तद्विहितं विजन्तुविहितम् । तच्च तदबलाद्यविषयश्च विजन्तुविहिताबलाद्यविषयस्तस्मिन् । पुनः किंविशिष्टे ? मनोविक्रियानिमित्तरहिते । मनोविक्रियानिमित्तान्यशुभसंकल्पकराः शब्दाद्यर्थाः । तै-रहिते त्यक्ते । किं कुर्वति च ? ददति संपादयति च । काम् ? रति मनसोन्यत्र गमनौत्सुक्यनिवृत्तिम् । कस्मै स्मृतं ? अर्तिहतिवर्णिताश्रुतसमाधिसंसिद्धये । अर्तिहतिराबाधापगमः । वर्णिनो ब्रह्मचारिणो भावो वर्णिता ब्रह्मचर्यम् । श्रुतं शास्त्र चिन्ता । समाधिरेकाग्रचिन्तानिरोधः अर्तिहतिश्च वर्णिता च श्रुतं च समाधिश्च अर्तिहतिवर्णिताश्रुतसमाधयः । तेषां संसिद्धिः सम्यनिष्पत्तिस्तदर्थम् ।
विविक्तवसतिमध्युषितस्य साधोरसाधु लोकसंसर्गादिप्रभवदोषसंक्लेशाभावं
भावयति---
असभ्यजन संवासदर्शनोत्थैर्न मध्यते । मोहानुरागविद्वेषैर्विविक्तवसतिं श्रितः ॥ ३१ ॥
न मध्यते न पीड्यते साधुः । के ? मोहानुरागविद्वेषैः । मोहोऽज्ञानं ममत्वं च । अनुरागोऽनुगतप्रीतिः विद्वेषो विरोधः मोहश्चानुरागश्च विद्वेपश्च तैः । किंविशिष्टैः ? असत्यजनसंवासदर्शनोत्थैः । सभायां साधवः सभ्याः । न सभ्या असभ्याः असभ्याश्च ते जनाश्वासयजना अशिष्टलोकाः । संगतं वसनं संवासः । दर्शनमवलोकनम् । संवासश्च दर्शनं च संवासदर्शने । असभ्यजनानां संवासदर्शने असभ्यजनसंवासदर्शने । ताभ्यामुत्था उत्थानं येषां ते असभ्यजनसंवासदर्शनोत्थास्तैः । किंविशिष्टः साधुः । श्रित आश्रितः । काम् ? विविक्तवसतिम् । तल्लक्षणं यथा
यत्र न चेतोविकृतिः शब्दाद्येषु प्रजायतेर्थेषु । स्वाध्यायध्यानहतिर्न यत्र वसतिर्विविक्ता सा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org