________________
सप्तमोऽध्यायः ।
४८९
कस्मात् ? उच्चैर्मनोविक्रिया हेतुत्वाद् महाचेतो विकारकारणत्वात् ।
उक्तं च-
चंत्तारि महाविगडीउ होंति णवणीदमजमंसमहू । कंखापसंगदं याऽसंजमकारीओ पदाओ ॥ ओणाभिकंखिणाऽवजभीरुणा तवसमाधिकामेण । ताओ जावज्जीवं निजूडाओ पुरा चेव ॥
सर्वदा रसपरित्यागं किमित्यभ्यस्येत् ? इत्यत्राह - हि यस्मान्न स्थान भवेत् । किं तत् ? विकृत्यङ्गं विकारकारणम् । कस्यै ? शान्त्यै कल्याणार्थम् । किं विशिष्टम् ? श्रितमाश्रितम् । कियत् ? तन्वपि । किं वत् ? दूषीविषवद् मन्दप्रभावविषमिव । दूषीविषलक्षणं यथा
जीर्ण विषघ्नौषधिभिर्हतं वा दावाग्निवातातपशोषितं वा । स्वभावतो वा न गुणैरुपेतं दूषीविषाख्यं विषमभ्युपैति ॥ रसपरित्यागः ।
अय विविक्तशय्यासनस्य तपसो लक्षणं फलं चोपदिशतिविजन्तुविहितावलाद्य विषये मनोविक्रिया, - निमित्तरहिते रतिं ददति शून्यसद्मादिके । स्मृतं शयनमासनाद्यथ विविक्तशय्यासनं, तपोर्तिहतिवर्णिताश्रुतसमाधिसंसिद्धये ॥ ३० ॥
स्मृतमानातं पूर्वसूरिभिः । किं तत् ? तपः । किमाख्यम् ? विविक्तशय्यासनं विविक्ते प्रासुकादिस्थाने शय्या चासनं च विविक्तशय्यासनम् । किं रूपम् ? शयनम् । न केवलम्, आसनाद्यथ उपवेशनोद्भावस्थाना
१ - चत्वारि महाविकृतयो भवन्ति नवनीतमद्यमांसमधु । काङ्क्षाप्रसङ्गदं चासंयमकारीणि एतानि ॥
२ - ज्ञानाभिकाङ्क्षिणाऽवद्यभीरुणा तपःसमाधिकामेन | ता यावज्जीवं त्यक्ताः पुरा चैव ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org