________________
अनगारधर्मामृते
-
~
-
rrr-~
अभ्यस्येदसकृत् प्रवर्तयेत् । कोसौ ? स मुमुक्षुः । कम् ? रसपरित्यागम् । किं कुर्वन् ? संलिखन् कृशीकुर्वन् । किं तत् ? वपुः शरीरम् कस्मात् ? विशेषतः । सर्वदा रसपरित्यागमभ्यस्येद्वपुः संलिखन् सुतरामित्यर्थः । यः किम् ? योऽत्यजत् त्यक्तवान् । कानि ? तानि नवनीतमांसमद्यमधूनि । कियन्ति ? चत्वार्यव चतुःसंख्यानि । तान्येव व्यस्तसमस्तदोषभूयस्त्वादत्यजन्न रसान्तराणीति एवशब्दार्थः । कथम् ? प्रागेव सल्लेखनोक्रमात्पूर्वमेव। कथम् ? जीवावधि । जीवनं जीवः । जीवोवधिर्मर्यादा यत्र तजीवावधि । यावजीवमित्यर्थः । किंविशिष्टः ? भीतस्त्रस्तः । कस्मात् ? अघात् पापात् । पुनः किं विशिष्टः ? तपासमाधिरसिकः । तपस्येकाप्रतां तपःसमाधी वा नितान्तमाकाङ्क्षन् । किं कुर्वन् ? दधद् धारयन् । काम् ? आज्ञां शासनम् । किंविशिष्टाम् ? आहती जैनीम् । कथं कृत्वा ? दृढम् । सर्वज्ञाज्ञालङ्घनादेव दुरन्तसंसारपातो ममाभूभविष्यति च तदेना जातुचिन्न लङ्येयमिति निर्बन्धं कृत्वेत्यर्थः । कथम् ? इति एवं प्रकारम् । त्याज्यानि परिहायांणि । कानि ? नवनीतादीनि । कैः ? धार्मिकैः धर्ममहिंसालक्षणं चरद्भिः । कस्मात् ? अत एतस्माद्धेतोः । यत्किम् ? यदुदितं परमागमे प्रतिपादितम् । किं तत् ? नवनीतम् । कीदृशम् ? काङ्क्षाकृद् गृद्धिकरम् । तथा यदुदितम् । किं तत् ? मांसम् । कीह. शम् ? अक्षमदसूट । अक्षाणां मदं सृजति जनयति अक्षमदसृट् । इन्द्रियदर्पकारीत्यर्थः । तथा यदुदितम् ? किं तत् ? मद्यम् । कीदृशम् ? प्रसङ्गप्रदम् । पुनः पुनस्तत्र वृत्तिरगम्यागमनं वा प्रसङ्गः । तं प्रकर्षण ददाति । तथा यदुदितम् । किं तत् ? क्षौद्रं माक्षिकम् । कीदृशम् ? असंयमार्थम् । रसविषयानुरागात्मक इन्द्रियासंयमः । रसजजन्तुपीडा. लक्षणश्च प्राणासंयमः। तन्निमित्तम् असंयमावौँ प्रयोजने यस्येत्येवमसंयमार्थमिति विग्रहः । यच्च भवन्ति । कानि ? नवनीतादीनि । कीदृशानि ? संमूलिसवर्णजन्तुनिचितानि । कियन्त्यपि ? चत्वार्यपि चतुःसं. ख्यानि । संमूर्छालाः संमूर्छनप्रभवाः । सवर्णाः स्वस्य योनिद्रव्येण समानवर्णाः । संमू लाश्च ते सवर्णाश्च ते संमूलिसवर्णाः । ते च ते जन्तवश्च प्राणिनः । तैर्निचितानि व्याप्तानि । यदपि यच्च भवन्ति । कानि ? नवनीतादीनि । किंविशिष्टानि ? महाविकृतयो महा विकृतिसंज्ञानि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org