________________
सप्तमोऽध्यायः।
४८७
त्यागो रसपरित्यागो नाम तपः स्थात्, यच्चासनं वर्जनम् । कस्य ? सूपस्य मुद्गादेः न केवलं, शाकस्य च जीवन्त्यादेहरितकस्य । कात्स्न्येनावयवेनवा अत्रापि योज्यम् । न केवलं सूपादिवर्जन, यच्चादनं भक्षणम् । किंविशिष्टम् ? आम्लमसंस्कृतसौवीरमिश्रम् । तथा विकटौदनं यददनमतिपकमुष्ठोदकमिश्रं वा । यच्च भोजनं शुद्धौदनं केवलभक्तम् । यच्चादनं सिक्थवत् सिक्थाढ्यम् । अल्पोदकमित्यर्थः । सिक्थान्यस्मिन् सन्तीति । भूम्नि मत्वर्थीयः । यच्चादनं सक्षमस्नेहम् । यच्चादनं शीतलं शीतमनुष्णम् । अपिः श्रेष्ठानामिष्टरूपरसगन्धस्पर्शोपेतानां परमान्नपानफलभक्षौषधादीनां रूपबलवीर्यगृद्धिदर्पवर्धनानां स्वादूनामाहाराणां महारम्भप्रवृत्तिहेतूनां संग्रहणार्थः।
यः संविग्नः सर्वज्ञाज्ञादृढबद्धादरस्तपःसमाधिकामश्च सल्लेखनोपक्रमातू पूर्वमेव नवनीतादिलक्षणाश्चतस्रो महाविकृतीर्यावजीवं त्यक्तवान् स एव रसपरित्यागं वपुःसल्लेखनाकामो विशेषेणाभ्यसितुमर्हतीत्युपदेशार्थ वृत्तद्यमाहकाङ्क्षाकृन्नवनीतमक्षमदमृण्मांसं प्रसङ्गप्रदं, मद्यं क्षौद्रमसंयमार्थमुदितं यद्यच्च चत्वार्यपि । सम्मोलसवर्णजन्तुनिचितान्युच्चैमनोविक्रिया,-- हेतुत्वादपि यन्महाविकृतयस्त्याज्यान्यतो धार्मिकैः ॥ २८॥
इत्याज्ञां दृढमाहतीं दधदघागीतोऽत्यजत् तानि य,चत्वार्येव तपःसमाधिरसिकः प्रागेव जीवावधि । अभ्यस्येत्स विशेषतो रसपरित्यागं वपुः संलिखन्, स्यादृषीविषवद्धि तन्वपि विकृत्यङ्गं न शान्त्यै श्रितम् ॥२९॥
(युग्मम् )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org