________________
४८६
अनगारधर्मामृते
संख्यानं नाम तपः । कसै ? नैराश्याय आशानिरासार्थम् । न केवलं इन्द्रियसंयमाय च करणगणसंयमनार्थम् । केन ? निजरसासग्मांससंशोषणद्वारेण । रस आयो धातुः । असृगू रुधिरम् मांसमामिषम् । रस. श्वासृक् च मांसं च रसासृग्मांसानि । निजानि च स्वकीयानि रसासृग्मांसानि । निजरसासृग्मांसानि । तेषां सम्यग्विहिताचरणेन शोषणमपकर्षणम् । तस्य द्वार मुखमुपायस्तेन वृत्तिपरिसंख्यानम् ।
अथ रसपरित्यागलक्षणमाहत्यागः क्षीरदधीक्षुतैलहविषां षण्णां रसानां च यः, कात्स्ये नावयवेन वा यदसनं सूपस्य शाकस्य च । आचाम्लं विकटौदनं यददनं शुद्धोदनं सिक्थव,दूक्षं शीतलमप्यसौ रसपरित्यागस्तपोऽनेकधा ॥ २७ ॥
भवति । किं तत् ? तपः। किंनाम ? रसपरित्यागः । कतिधा ? अनेकधा अनेकप्रकारः । किं लक्षणोसौ ? क्षीरादित्यागादिः । यः किम् ? यस्त्यागो वर्जनम् । केषाम् ? क्षीरदधीक्षुतैलहविषां द्रव्याणाम् । क्षीरं गव्यादि। दधि गव्यादिक्षीरविकारः । इक्षुर्गुडखण्डमत्स्यण्डिकाशकरादिः । तैलं तिलतैलादिकम् । हविर्गव्यादिघृतम् । क्षीरं च दधि चेक्षुश्च तैलं च हविश्व क्षीरदक्षीक्षुतैलहवींषि, तेषाम् । न केवलं, यश्च त्यागः । केषाम् । रसानां द्रव्याश्रितमधुरादिनिर्यासानाम् । कियताम् ? षण्णां पटसंख्यानाम् । उक्तं च
रसास्वाद्वम्ललवणतिक्तोषणकषायकाः। षद्रव्यमाश्रितास्ते च यथापूर्व बलावहाः॥ केन क्षीरादीनां रसानां च त्यागः ? कात्स्ये न सर्व सर्विकया । न केवलम्, अवयवेन वा एक द्विघ्यायवच्छेदेन । न केवलं तथा क्षीरादि.
१ 'मत्स्यण्डी फाणितम्' इत्यमरे वैश्यवर्गः श्लोकः ४३ तमः।
राब इति ख्यातस्य द्रवगुडरूपस्य नामेदम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org