________________
सप्तमोऽध्यायः।
४८५
गृहीष्यामि नान्यथा । एवमादिरमत्रविषयः। तथा यदि पिण्डभूतं द्रवबहुलतया पेयं वा यवागू वा मसूरचणकयवादिधान्यं वा शाककुल्माषादिसंसृष्टं वा समन्तादवस्थितशाकमध्यावस्थितौदनं वा परितः स्थितव्यञ्जनमवास्थितान्नं वा व्यञ्जनमध्ये पुष्पावलीवदवस्थितसिक्थकं वा निष्पाचाप्रामिश्रितानं वा शाकव्यञ्जनादिकं वा हस्तलेपकारि वा तदलेपकारि वा नि:सिक्थकं ससिक्थकं वा पानकं वाद्यप्रभृत्यभ्यवहरामि नान्यत् । इत्यन्न. विषयः । तथा एतेष्वेतावत्सु वा गृहेषु प्रविशामि नान्येषु बहुषु । इति समविषयः। आदिशब्दापाटकादयो गृह्यन्ते। तत्र इममेव पाटकं प्रविश्य रब्धां भिक्षां गृह्णामि नान्याम् । एकमेव पाटकं द्वयमेव वेति । तथास्य गृहस्य परिकरतयावस्थितां भूमि प्रविश्य गृह्णामीत्यभिग्रहो निवसनमित्युच्यते इति केचिद्वदन्ति । अपरे, पाटकस्य भूमिमेव प्रविशामि, न पाटकगृहाणीति संकल्पः पाटकनिवसनमित्युच्यते, इति कथयन्ति । तदुभयमपि च गृह्यते । तथा एकां भिक्षा द्वे एव वा गृह्णामि, नाधिकामिति भिक्षापरिमाणम् । तथा एकेनैव दीयमानं द्वाभ्यामेवेति वा दातृक्रियापरिमाणम् । अनियतायामपि भिक्षायामियत एवं ग्रासानियन्त्येव वा वस्तून्येतावन्तमेव वा कालमेतस्मिन्नेव वा काले गृह्णामीति वा परिमाणं गृह्यते इति । तदुक्तम्
गत्वा प्रत्यागतमृजुविधिश्च गोमूत्रिका तथा पेटा। शम्बूकावर्तविधिः पतङ्गवीथी च गोचर्या ॥ पाटकनिवसनभिक्षापरिमाणं दातृदेयपरिमाणम् । पिण्डाशनपानाशनखिच्चयवागूर्वतयति सः॥ संसृष्टफलकपरिखा पुष्पोपहृतं च शुद्धकोपहितम् । लेपकमलेपकं पानकं च नि:सिक्थकं ससिक्थं च ॥ पात्रस्य दायकादेरवग्रहो बहुविधः स्वसामर्थ्यात् । इत्येवमनेकविधा विशेया वृत्तिपरिसंख्या ॥ तरकः किमर्थमाचरेदित्यनाह-नैराश्यायेत्यादि । आचरेदनुतिष्ठेन्मुमुक्षुः । कीदृशः ? आसेदिवान् प्राप्तः । किम् ? निर्वेदं संसारशरीरभोगवैराग्यम् । किंविशिष्टम् ? परं परमम् । किं तत् ? तद् वृत्तिपरि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org