SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ ४८४ अनगारधर्मामृते नैराश्याय तदाचरेन्निजरसामृग्मांससंशोषण,द्वारेणेन्द्रियसंयमाय च परं निर्वेदमासेदिवान् ॥२६॥ भवति । किं तत् ? तपः । किन्नाम ? वृत्तिपरिसंख्यानम् । किंरूपम् ? अङ्गस्थितिः शरीराय वृत्तिः । कस्य ? श्रमणस्य तपस्विनः । कस्मात् ? संकल्पात् अभिप्रायात् । किंविशिष्टात् । भिक्षागोचरचित्र. दातृचरणामत्रान्नसद्मादिगात् । भिक्षाश्रितनानाविधदायकादिविषयमभिसंधिमाश्रित्य यतेराहारग्रहणं वृत्तिपरिसंख्यानमित्याख्यायते इत्यर्थः । उक्तं च गोयरपमाणदायगभायणणाणाविहाण जं गहणं । तह यासणं सगहणं विविध सयमंति परिसंखा ॥ दाता दायकः । चरणं वीथ्यादिगमनम् । अमत्रं भाजनम् । अन्नं भोज्यद्रव्यम् । सद्म गृहम् । दातारश्च चरणानि चामत्राणि चान्नानि च सद्मानि च दातृचरणामत्रान्नसद्मानि । तान्यादयो येषां पाटकादीनां ते दातृचरणामत्रान्नसद्मादयः । चित्रा नानाप्रकाराश्च ते दातादयश्च चित्रदानादयः । भिक्षाया गोचरा विषया भिक्षागोचराः । ते च ते चित्रदानादयश्च भिक्षागोचरचित्रदानादयः । तान्गच्छति विषयीकरोति यः संकल्पः स भिक्षागोचरचित्रदातृचरणामत्रान्नसद्मादिगस्तस्मात् । तमाश्रित्ये. त्यर्थः । तद्यथा "ब्राह्मणक्षत्रियादिर्वा सोपि वृद्धो बालयुवाद्यवस्थो वा सोपानको मार्गस्थो हस्त्याद्यारूढोऽन्यथा वा यद्यद्य प्रभृति मां धरेत् तदानीं तिष्ठामि नान्यथा। एवं स्त्रियामपि योज्यम् ।” एवंविधो बहुविधो दातृविषयः संकल्पः । तथा यया वीथ्या गच्छामि पूर्व तयैव प्रथ्या गच्छन् यदि भिक्षां लभेय तदा गृह्णीयां नान्यथा । एवं प्राञ्जलं वीत्यागच्छन् गोमूत्रिकाकारं वा चतुरस्त्राकारं वा अभ्यन्तरमारभ्य बहिनिस्सरणेन वा शलभमालाभ्रमणाकार वा गोचर्याकारं वा भ्राम्यन् यद्यद्य प्रभृति भिक्षां लभेय तदा गृह्णीयाम् इत्यादिरनेकविधश्वरणविषयः। तथा सौवर्णेन राजतादिना वा मृन्मयेन वा भाजनेन यदि दास्यति भिक्षां तदा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy