________________
सप्तमोऽध्यायः।
४८३
मिताशनादिन्द्रियाणां प्रद्वेषाभावं वशवर्तित्वं च दर्शयतिनाक्षाणि प्रद्विषन्त्यन्नप्रति क्षयभयान्न च । दोत्स्वैरं चरन्त्याज्ञामेवानूद्यन्ति भृत्यवत् ॥ २४ ॥ न प्रद्विषन्ति न विप्रीतिं गच्छन्ति । कानि ? अक्षाणीन्द्रियाणि । कथम् ? अन्नप्रति अन्नस्य मात्रया । स्तोकाहारेणेत्यर्थः। कस्मात् ? क्षयभयात प्रलयभीतेः। उपवासादिन्द्रियाणां क्षयाद् भयं स्यात् । अन्नप्रती. त्यत्र 'स्तोके' प्रतिना' इत्यनेनाव्ययीभावः। नच नापि चरन्ति प्रवर्तन्ते । कानि ? अक्षाणि । कथम् ? स्वैरं स्वच्छन्दम् । कस्मात् ? दोन्मदावे. शात् । किं तर्हि कुर्वन्तीत्याह-आज्ञामित्यादि । उद्यन्ति उत्थानं कुर्वन्त्यक्षाणि । कथम् ? अनु सह । काम् ? आज्ञामेव । आज्ञयैव सहेत्यर्थः । किंवत् ? भृत्यवद् भृत्या यथा । आज्ञामेवानु इत्यत्र "भार्थे । १।४।४१४॥ इत्यनेन सहार्थे द्वितीया ॥ मिताशिनो गुणविशेषमाहशमयत्युपवासोत्थवातपित्तप्रकोपजाः। रुजो मिताशी रोचिष्णु ब्रह्मवर्चसमश्नुते ॥ २५ ॥
शमयति शमं नयति । कोसौ ? मिताशी। काः ? रुजो व्याधीन् । किविशिष्टाः ? उपवासोत्थवातपित्तप्रकोपजाः । उपवासादुत्था उत्थानं यस्य सोयमुपवासोत्थः। स चासौ वातपित्तप्रकोपश्च पवनपित्तयोरुन्मार्गगामित्वम् । तस्माजाताः । उपवासाद्धि धातुवैषम्याद्वातपित्तप्रकोपः स्यात् । तथाऽश्रुते प्रामोति मिताशी । किं तत् ? ब्रह्मवर्चसं परमात्मतेजः श्रुत. ज्ञानं वा । किंविशिष्टम् ? रोचिष्णु दीपनशीलम् । अवमोदर्यम् ।
अथ वृत्तिपरिसंख्यानतपसो लक्षणं तदाचरणफलं चोपदिशतिभिक्षागोचरचित्रदातृचरणामत्रानसमादिगात, संकल्पाच्छ्रमणस्य वृत्तिपरिसंख्यानं तपोङ्गस्थितिः । १ 'स्तोके प्रति' इत्येव पाठोत्र मूलपुस्तके दृष्टः । तथापि जैनेन्द्रे "स्तोके प्रतिना" इति पाठो लभ्यते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org