SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृते देवार्जवशौचसत्यसंयमतपस्त्यागा किंचन्यब्रह्मचर्यं लक्षणो दशप्रकारः । आव श्यकानि वक्ष्यमाणलक्षणानि षट् । योग आतापनादिः सङ्ख्यानादिश्च । धातुसमता वाताद्यवैषम्यम् । निद्राजयः स्वापनिग्रह आदिर्यस्येन्द्रियप्रद्वेषनिवृयादेः सोयं निद्राजयादिः । धर्मश्चावश्यकानि च योगश्च धातुसमता च निद्राजयादिश्च धर्मावश्यकयोगधातुसमतानिद्वाजयादयः । तेषामाप्तिः प्राप्तिस्तस्यै । उक्तं च ४८२ धर्मावश्यक योगेषु ज्ञानादावुपकारकृत् । दर्पहारीन्द्रियाणां च ज्ञेयमूनोदरं तपः ॥ बहाशिनो दोषानाह चहाशी चरति क्षमादिदशकं हृप्यन्न नावश्यका, - न्यक्षूणान्यनुपालयत्यनुषजत्तन्द्रस्तमोऽभिद्रवन् । ध्यानाद्यर्हति नो समानयति नाप्यातापनादीन्वपुः, शर्मासक्तमनास्तदर्थमनिशं तत्स्यान्मिताशी वशी ॥ २३ ॥ न चरति नानुतिष्ठति । कोसौ ? बह्वाशी अतिमात्राशनशीलः । किं तत् ? क्षमादिदशकमुत्तमक्षमादीनि दश । कीदृशो भवन् ? हृप्यन् इप्सः सन् । नाप्यनुपालयति अनुगतं रक्षति वह्नाशी । कानि ? आवश्यकानि । कीदृशानि ? अक्षूणानि निर्दोषाणि संपूर्णानि वा । किं कुर्वन् ? दृप्यन् नो नाप्यर्हति बह्वाशी हृप्यन् । किं तत् ? ध्यानादि ध्यानस्वाध्यायादि । किं कुर्वन् ? अभिद्रवन् आभिमुख्येन गच्छन् । किं तत् ? तमो मोहम् । कथंभूतो भूत्वा ? अनुषजत्तन्द्रः । अनुषजन्ती अनुबध्यमाना तन्द्रा प्रमीला यस्य स एवम् । नापि समानयति प्रत्यानयति संपूर्णीकरोति वा बाशी । कानू ? आतापनादीनातापनवर्षायोग बाह्यश्यनयोगान् । किं विशिष्टः सन् ? वपुः शर्मासक्तमनाः शरीरसुखासक्तचित्तः । यत एवं विधा दोषा बह्वाशिनः संभवन्ति तत् तस्मात्कारणात् स्याद्वशी यतिः किं विशिष्टः ? मिताशी । मितं परिमितमश्नातीत्येवं व्रतः । किमर्थम् ! तदर्थे धर्माद्यर्थम् । कथम् ? अनिशं नित्यम् ॥ Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy