________________
सप्तमोऽध्यायः ।
अथावमोदर्यस्य लक्षणं फलं चाह
ग्रासोऽथावि सहस्रतन्दुलमितो द्वात्रिंशदेतेऽशनं, पुंसो वैrसिकं स्त्रियो विचतुरास्तद्धानिरौचित्यतः । ग्रासं यावदथै कसिक्थमवमोदर्यं तपस्तच्चरे, द्धर्मावश्यक योगधातुसमता निद्राजयाद्याप्तये ॥ २२ ॥
अश्रावि श्रावितः शिष्टैस्तेभ्यः श्रुतो वा । कोसौ ? ग्रासः कवलः । कीदृश: ? सहस्रतन्दुलमितः । सहस्रं दशशतानि तन्दुला मितं मानं यस्य स एवम् । भवति । किं तत् ? अशनं भोजनम् । किम् ? एते ग्रासाः । कति ? द्वात्रिंशत् । कस्य ? पुंसः पुरुषस्य । कीदृशम् ? वैश्रसिकं स्वाभाविकम् । अथवा,
-
कुक्कुटाण्डसमग्रासा द्वात्रिंशद्भोजनं मतम् । तदेकद्वित्रिभागोनमवमोदर्य मीर्यते ॥
तथा भवति । किं तत् ? अशनम् । कस्याः ? स्त्रियो नार्याः । किंविशिष्टम् ? वैनसिकम् । किं तत् ? ग्रासाः । किंविशिष्टाः ? विचतुरा विगताश्चत्वारो येषां विचतुराः । अष्टाविंशतिरित्यर्थः । भवति च । किं तत् ? तपस्तपोहेत्वाद्यूनतापरिहाररूपत्वात् । किमाख्यम् ? अवमोदर्यमतृप्तिभोजनम् । किं तत् ? तद्धानिस्तेषां द्वात्रिंशतोऽष्टात्रिंशतेर्वा हानिरपकर्षः । कथम् ? यावद्वधीकृत्य । कम् ? ग्रासं ग्रासमात्रम् । एककवलमित्यर्थः । अथ अथवा एकसिक्थं सिक्थमात्रमित्यर्थः । कस्मात् ? औचित्यत एकोत्तर श्रेण्याः चतुर्थादिभागत्यागाद्वा । उक्तं च
1
द्वात्रिंशाः कवलाः पुंस आहारस्तृप्तये भवेत् । अष्टाविंशतिरेवेष्टाः कवलाः किल योषितः ॥ तस्मादेकोत्तरश्रेण्या यावत्कवलमात्रकम् । ऊनोदरं तपो ह्येतत्तद्भेदोपीद मिष्यते ॥
Jain Education International
४८१
तच्च चरेदनुतिष्ठेन्मुमुक्षुः । कस्यै ? धर्माद्यातये । धर्म उत्तमक्षमामा
अन० थ० ३१
For Private & Personal Use Only
www.jainelibrary.org